SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ ५४३ सप्तम उच्छ्वास: तथा यत्र एवंविधानि लक्षसंख्यानां प्रदीपानां वर्त्तिमुखानि दशाप्रान्ता प्रेक्षणकं च । किम्भूतानि लक्षप्रदीपवत्तिमुखानि ? अनलेन - ज्वालालक्षणेन संयोगो येषां तानि अनलसङ्गानि । किम्भूतं प्रेक्षणकम् ? न अलसं अनलसमोजस्वि उच्चैः स्थाने गीयमानत्वात्। तथा गानमस्यास्तीति इन् गानिम् । १ लक्षसंख्यद्रव्यपतीनां हि वेश्मसु यावल्लक्षं दीपा ज्वाल्यन्त इति प्रसिद्धिः । किं बहुना - सुस्थिततेजोराशेर्लक्ष्मीजनकस्य रत्ननिलयस्य । तस्योपरि प्लवन्ते वार्धेरिव वर्णकाः सर्वे ॥ १९ ॥ किम्बहुना - किम्बहूक्तेन सुस्थिति । वाद्धेरिव - सागरोपमस्य तस्य राजभवनस्य नृपमन्दिरस्य उपरि वर्णका:-स्तोतारः प्लवन्ते - तरन्ति अपरिच्छिन्नगुणत्वात्, अलब्धमध्या बाह्यमेव वर्णयन्तीति भावः । यथा वार्द्धेरुपरि सर्वेऽपि प्लवन्ते । किम्भूतस्य तस्य ? सुष्ठुस्थितस्तेजोराशिःप्रतापचयो यत्र तत्तस्य । तथा २ लक्ष्म्याः - शोभाया जनकस्य - उत्पादकस्य, तथा रत्नानां निलयस्य-आश्रयस्य । किम्भूतस्य वार्द्ध: ? सुस्थितस्तेजोराशिः- वडवानलो यस्मिन् स तथा तस्य, तथा लक्ष्मीः-विष्णुपत्नी तस्याः जनकस्य, तथा रत्नानां निलयस्य । वारो जलान धीयन्तेऽस्मिन्मिति वाद्धिः । आर्या ॥ १९ ॥ " तत्र च चलत्कञ्चुकिकुल 'संकुलं पातालमिवान्तःपुरमनन्तालयं? प्राविशम् । विविधकुसुमसम्पत्संपन्नपुण्यपादपपरिकरिताङ्गणवापीपरिसरचलच्चक्रवाके* चन्द्रशालाशालिनि, शैलूष इवानेकभूमिकाभाजि, धनंजय इव सुभद्रान्विते कुरुवंशाख्यान इव चारुचित्त्रविचित्रभित्तिभाजि, तुहिनाचलो च्चकू टायमाने सुधाधवलस्कन्धे धाम्नि ध्वजावलीविलग्न''सप्तसप्तिसप्तौ सप्तमभूमि- कायाम्, इतोमुखवातायने निविष्टाम्, इतो गतास्ताः कुब्जवामनकन्यकास्त्वद्वार्ताव्यतिकरविनोदारम्भिणीः सम्भाषयन्तीम्, अनवरततरललोचनालोकनैर्नीलोत्पलोपहारमिव त्वदधिष्ठितायै दिशे दिशन्तीम्, उत्तरीयांशुकस्याच्छतया दृश्यमानमदनबाणव्रणकिणानुकारि १. गानि अनू. । २. तथा नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy