Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad
View full book text
________________
५४४
दमयन्ती-कथा-चम्पू: कस्तूरिकापङ्कपत्रलताङ्कितकु चकलशश्रियम् अष्टमीशशाङ्कशकलश्रीशोभाभाजि ललाटपट्टे स्मरपरवश त्रिपुरुषैरिव २ममेयं ममेयम्' इति संहर्षात्कृतं स्वस्ववर्णानुकारिस्वीकारचिह्नमिव कुङ्कुममृगमदमलयजरसरचितत्रिपुण्डुकरेखात्रय मुद्वहन्तीम्, आलोहितेन च त्वद्वार्तामृतपानबालप्रवालप्रणालकेनेव कर्णप्रणयिना बालपल्लवेन विराजितवदनाम्, आसन्नमणिभित्तिदर्पणसंक्रान्तप्रतिबिम्बतया त्वत्संगमवाञ्छाकृतसंतापसंविभागार्थमिव बहून्यात्मरूपाणि सृजन्तीम्, आसन्नवर्तिनीभिर्वाणीविनोद विदुषीभिः समानवयोवेषाभिः सखीभिः सरस्वतीमिव सकलविद्याधिदेवताभिरुपास्यमानाम्, उन्मिषत्कु सुमाभरणरमणीयाभिश्चामरग्राहिणीभिर्वनदेवताभिरिव शरीरिणीभिर्वसन्तमासश्रियमुपसेव्यमानाम्, अनुलेपनपुष्पपाणिभिः प्रसाधिकाभिर्भवानीमिवानेकनाकि नायकनारीभिराराध्यमानाम्, इतस्ततो निपतन्मण्डनमणिमयूखमञ्जरीजालच्छलेनाङ्गेष्वमान्तमिव० कान्तिरस११मुत्सृजन्तीम्, अशेषावयवेषु१२ प्रतिबिम्बितैरासन्नचित्रभित्तिरूपकै र्मायाविभिः सुरासुरैरिव विधीयमानाश्लेषाम्, अग्रस्थिते१३ पद्मरागमणिदर्पणे कन्दर्पातुरे रागिणि शशिनीव करुणयार्पितच्छायाम्, अशेषजगद्विजयास्त्रशलाकामिव१४ मन्मथस्य, सङ्केतवसतिमिव सौन्दर्यगुणानाम्१५ अधिदेवतामिव सौभाग्यस्य, विपणिमिव लावण्यस्य, शिल्पसर्वस्वरेखामिव१६ विधातुः, अनन्त संसाररोहणैकरत्नकन्दली दमयन्तीमद्राक्षम्१८ ।
ईक्षणामृतशलाकामवलोक्य१९ च तामतिहर्षविस्मयकौतुकोत्तानितचक्षुश्चिन्तितवानहम् ।।
तत्र च राजभवने अन्तःपुरं-अवरोधं प्राविशम् । किम्भूतं अन्तःपुरम् ? चलन्तो ये कञ्चुकिनः-महल्लकास्तेषां यत्कुलं-वृन्दं तेन संकुलं-व्याप्तं । तथा अनन्ताः-बहवः आलया:-निलया यस्मिस्तत् अनन्तालयं । किमिव ? पातालमिव । किम्भूतं पातालम् ? चलन्तो ये कञ्चुकिन:-उरगास्तेषां कुलेन संकुलं, तथा अनन्तः-शेषस्तस्य आलयो यत्तत् । तत ईदृग्विधे धाम्नि-गृहे सप्तमभूमिका-सप्तमक्षणस्तत्र स्थिते, इत:-अस्यां दिशि मुखं यस्य तत् इतोमुखं तस्मिन्, इतो मुखे एव-हस्तादिसंकेतकथिते एव वातायने गवाक्षे निविष्टां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776