Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 694
________________ सप्तम उच्छासः ५४९ रसे" [ ] इत्यभिधानात् । अतस्तस्यां सृष्टायां स्रटुरपवादो न भविष्यतीति । हरिणाक्षीति पाठस्तु अक्षिमात्रसौन्दर्यार्थो न समग्रगुणसुन्दरतां वक्तीत्युपलक्षणपरतया निर्वाह्यः । आर्या ॥ २१ ॥ किं चान्यत् लावण्यपुण्यपरमाणुदलं तदन्यदन्यः क्रियासु कुशलः स च कोऽपि वेधाः । येनाद्भुता कृतिरियं विहिता विशिष्ट कार्येण कारणविशेषगुणोऽनुमेयः२ ॥ २२ ॥ किञ्चान्यत् लावण्येति । तत् लावण्येन पुण्यं पवित्रं यत्परमाणूनां दलं उत्सेधवद् वस्तुपुञ्ज इति यावत् तत् लावण्यपुण्यपरमाणुदलं अन्यत् शिष्टं च-पुनः स कोऽपि क्रियासुकरणव्यापारेषु कुशल:-दक्षो वेधा अन्यः, अन्यपदं उभयत्र वैशिष्ट्यपरं विशिष्ट इत्यर्थः । येन निरुपमलावण्यदलेन-क्रियाकरणलब्धपाटवेन वेधसा च इयं- भैमी अद्भुताआश्चर्यकारिणी आकृतिर्यस्याः सा एवंविधा विहिता । तत्रार्थे हेतुमाह-विशिष्टकार्येणकार्यगुणवैशिष्टयेन कारणस्य विशेषगुणो अनुमेयः । कार्यविशिष्टगुणेन हि कारणविशिष्टगुणो अनुमीयते । यथा पटस्य शौक्ल्येन तत्कारणभूततन्तुपटलस्य शौक्ल्यमिति । तथाऽत्रापीयं दमयन्ती चेत् सर्वगुणपरिपूर्णा जाता तहि एतस्याः. कारणं परमाणुदलं वेधाश्च अन्य एव आसीदित्यनुमीयते । “दलं शस्त्रीच्छदेर्द्धपर्णयोः । उत्सेधवद्वस्तुनि" [२।५०५] इत्यनेकार्थः । वसन्ततिलका ॥ २२ ॥ एवं वितर्कयन्तं सापि मां पुष्कराक्षसूचितं संभ्रमेण मनाग्वलितकन्धराकन्दलीकम्पितकर्णोत्पलमवलोक्य स्वागतप्रश्नानन्तरम् 'अहो बहोः कालादभूत्सुप्रभातमद्योद्योतितमिव तमस्काण्डपिण्डीकृतं कुण्डिनम्, अकाण्डाडम्बरितवसन्तविकासोत्सव इवाभवत्सरित्संगमोपकण्ठवनविभागः, चिरात्संपन्ना सलक्षणा दक्षिणा दिगियम्, उन्निद्रित इव सह्याद्रिः, अमृतद्रवाति इवोज्जीवितोऽयं जनः' इत्यभिधाय ‘पर्वतक, कच्चित्-कुशली परबलवनदावानलो नलः' इति स्मितमुखमधुरया' गिरा मामभाषत । माभाषते११ । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776