________________
सप्तम उच्छासः
५४९ रसे" [ ] इत्यभिधानात् । अतस्तस्यां सृष्टायां स्रटुरपवादो न भविष्यतीति । हरिणाक्षीति पाठस्तु अक्षिमात्रसौन्दर्यार्थो न समग्रगुणसुन्दरतां वक्तीत्युपलक्षणपरतया निर्वाह्यः । आर्या ॥ २१ ॥
किं चान्यत्
लावण्यपुण्यपरमाणुदलं तदन्यदन्यः क्रियासु कुशलः स च कोऽपि वेधाः । येनाद्भुता कृतिरियं विहिता विशिष्ट
कार्येण कारणविशेषगुणोऽनुमेयः२ ॥ २२ ॥ किञ्चान्यत्
लावण्येति । तत् लावण्येन पुण्यं पवित्रं यत्परमाणूनां दलं उत्सेधवद् वस्तुपुञ्ज इति यावत् तत् लावण्यपुण्यपरमाणुदलं अन्यत् शिष्टं च-पुनः स कोऽपि क्रियासुकरणव्यापारेषु कुशल:-दक्षो वेधा अन्यः, अन्यपदं उभयत्र वैशिष्ट्यपरं विशिष्ट इत्यर्थः । येन निरुपमलावण्यदलेन-क्रियाकरणलब्धपाटवेन वेधसा च इयं- भैमी अद्भुताआश्चर्यकारिणी आकृतिर्यस्याः सा एवंविधा विहिता । तत्रार्थे हेतुमाह-विशिष्टकार्येणकार्यगुणवैशिष्टयेन कारणस्य विशेषगुणो अनुमेयः । कार्यविशिष्टगुणेन हि कारणविशिष्टगुणो अनुमीयते । यथा पटस्य शौक्ल्येन तत्कारणभूततन्तुपटलस्य शौक्ल्यमिति । तथाऽत्रापीयं दमयन्ती चेत् सर्वगुणपरिपूर्णा जाता तहि एतस्याः. कारणं परमाणुदलं वेधाश्च अन्य एव आसीदित्यनुमीयते । “दलं शस्त्रीच्छदेर्द्धपर्णयोः । उत्सेधवद्वस्तुनि" [२।५०५] इत्यनेकार्थः । वसन्ततिलका ॥ २२ ॥
एवं वितर्कयन्तं सापि मां पुष्कराक्षसूचितं संभ्रमेण मनाग्वलितकन्धराकन्दलीकम्पितकर्णोत्पलमवलोक्य स्वागतप्रश्नानन्तरम् 'अहो बहोः कालादभूत्सुप्रभातमद्योद्योतितमिव तमस्काण्डपिण्डीकृतं कुण्डिनम्, अकाण्डाडम्बरितवसन्तविकासोत्सव इवाभवत्सरित्संगमोपकण्ठवनविभागः, चिरात्संपन्ना सलक्षणा दक्षिणा दिगियम्, उन्निद्रित इव सह्याद्रिः, अमृतद्रवाति इवोज्जीवितोऽयं जनः' इत्यभिधाय ‘पर्वतक, कच्चित्-कुशली परबलवनदावानलो नलः' इति स्मितमुखमधुरया' गिरा मामभाषत । माभाषते११ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org