________________
दमयन्ती - कथा - चम्पूः
1
एवं स्मरराजेत्यादिपद्यत्रयव्यवस्थया वितर्कयन्तं - ऊहमानं, तथा पुष्कराक्षेण सूचितं, यथा - हे भैमि ! नलप्रेषितः पर्वतकः समागच्छतीति निवेदितं मां-पर्वतकं साऽपि - दमयन्त्यपि संभ्रमेण-आदरेण मनाक् - ईषत् वेलिता' - परिवर्तिता या कन्धराकन्दली - ग्रीवाप्ररोहस्तया कम्पितं -दोलितं कर्णोत्पलं यत्र वीक्षणे यथा भवति तथा अवलोक्य स्वागतस्य यः प्रश्नः यथा भवतां स्वागतमिति तस्मात्, अनन्तरं - पश्चात् इत्यभिधाय हे पर्वतक ! कच्चित् इति इष्टपरिप्रश्ने परबलवने रे - शत्रुसैन्यकानने दावानल इव यः सः एवंविधो नलः कुशलीकल्याणवान् इति स्मितं विकसितं मुखं यस्यां सा स्मितमुखा, तथा मधुरा - मृष्टा ततः कर्मधारयः, एवंविधया गिरा वचनेन मां अभाषत-सम्भाषितवती दावानलोपमानेन आत्मनो विरहसन्तापहेतुत्वं नलस्यं व्यनक्ति । इति अभिधायेत्यत्र इतीति किम् ? अहो ! इति अद्भुतं बहोः कालात् सुप्रभातं - शोभनप्रातरभूत् । अहो तमस्काण्डेन - अन्धकारसमूहेन पिण्डीकृतं-सान्द्रीकृतं बह्वन्धकारव्याप्तमित्यर्थः, कुण्डिनं अद्य उद्योतितमिव - प्रकाशितमिव । "काण्डं नालेऽधमे वर्गे द्रुस्कन्धेऽवसरे शरे । सहः श्लाघाम्बुषु स्तम्बे " [२११२-१३] " पिण्डं तु वेश्मैकदेशे जीवनायसोः । बले सान्द्रे " [२।१२५ ] इत्यनेकार्थः । अहो सरित्सङ्गमस्य-नदीसम्भेदस्य उपकण्ठे - समीपे वनविभागः - वनोद्देशः अकाण्ड एव - अकाल एव आडम्बरित:-उल्लसितो वसन्तविकासस्य - मधुविलासस्य उत्सवो यत्र एवंविध इव अभवत् । सैन्यजनानां वने विलसनात् । अहो चिरात् - चिरकालात् इयं दक्षिणादिक् सलक्षणा - लक्षणोपेता सम्पन्ता जाता । अहो सह्याद्रिरुन्निद्रित इव - जागरित इव, सैन्यकलकलस्य तत्र संजायमानत्वात् । अहो अयं दाक्षिणात्यो जनः अमृतद्रवेण - पीयूषरसेन आर्द्रित इव-सिक्त इव उज्जीवितः-पुनः प्राप्तचैतन्यः ।
५५०
अहमपि प्रणम्य यथोचितमनन्तरमतित्वरितसखीजनोपनीतमासनमध्यास्य देवेन प्रहितानि तान्याभरणोपायनान्युपानैषम् ।
अहमपि यथोचितं - उचितं अनतिक्रम्य यथोचितं - यथायोग्यं प्रणम्य अनन्तरं पश्चात् अतित्वरितं-अतिशीघ्रं यथा स्यात्तथा सखीजनेन उपनीतं - उपढौकितं दत्तमासनं-पीठं अध्यास्य-आरुह्य देवेन प्रहितानि तानि आभरणान्येव उपायनानि-ढौकनानि उपानैषंप्रापयामास अदामित्यर्थः ।
आदरेण तया गृहीतेषु तेषु', बहुमते मयि, प्रकान्ते त्वद्गुण
१. वलिता अनू. । २. एवं यथा अनू । ३. परिनलवने अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org