SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ ५५१ सप्तम उच्छ्वासः ग्रहण' गोष्ठीव्यतिकरे, नर्मसुखालापलीलयातिक्रामति स्तोककालकला - कलापे, पुष्कराक्षोऽप्यभाषत । तया-दमयन्त्या आदरेण तेषु उपायनेषु गृहीतेषु सत्सु मयि बहुमते - तस्या अतिशयेन अभीष्टे, तव ये गुणाः - औदार्यधैर्यादयस्त्वद्गुणास्तेषां यद् ग्रहणं - कथनं तदेव गोष्ठी-क्रीडास्थानं तस्या यो व्यतिकरः- सम्बन्धस्तस्मिन् प्रक्रान्ते - आरब्धे सति त्वद्गुणात् वर्णयति सतीत्यर्थः । तथा स्तोकः - अल्पो यः कालकलानां कालविशेषाणां कलापःसमूहस्तस्मिन् नर्मसुखेन परिहाससौख्येन या आलापलीला - सम्भाषणविलासस्तया अतिक्रामति-गच्छति सति पुष्कराक्षोप्यभाषत । 'देवि, विज्ञापयामि यद्यभयम् । एवमनुश्रुतमस्माभिः किल सकलनाकिनायकपुरन्दरपुरःसराः सर्वेऽपि लोकपालास्त्वामभिलषन्तो ऽन्तःकरणारण्यलग्नमदनदावानलं'नलमायान्तमभ्यर्थितवन्तो यथा - महानुभावा भवन्ति हि भवादृशाः ६ परोपकारव्रतधर्माणः, तदेष प्रार्थ्यसे स्वप्रयोजननिरपेक्षेण त्वयास्मदर्थे दमयन्ती वरणीया, इति' । तद्देवि, देवदूतकार्येणागतो निषधेश्वरः । पृच्छतु वा देवी पर्वतकम्' । हे देवि ! - भैमि ! विज्ञापयामि - निवेदयामि यदि चेत् अभयं - भयाभावो न मारणोपक्रमः क्रियेतेति भावः । अथ विज्ञाप्यमेवाह एवमिति । किलेति अरुचौ, तस्य इदं न रोचत इत्यर्थः । हे भैमि ! अस्माभिः एवं अनुश्रुतं, किं तत् ? सकलनाकिनां - सर्वस्वर्गिणां नायक:- स्वामी यः पुरन्दरः- इन्द्रः स पुरःसरः-अग्रेसरो येषां एवंविधाः सर्वेपि लोकपालाः- यमादयस्त्वां अभिलषन्तः-वाञ्छन्तः अन्तःकरणं-चेतस्तदेव अरण्यं वनं तस्मिन् लग्नः - उत्थितो मदन एव दावानलो यस्य स तथाभूतं नलं आयान्तं-आगच्छन्तं अभ्यर्थितवन्तः - प्रार्थयामासुः । अथ ते यदभ्यर्थितवन्तस्तदाह यथेति । यत: हि-स्फुटं भवादृशा महानुभावाः परोपकारव्रतमेव धर्म्मः - पुण्यं येषां Jain Education International - For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy