SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ ५५२ दमयन्ती-कथा-चम्पू: ते । यद्वा, परोपकारव्रते एव-परोपकृतिकरणाभिग्रहे एव धर्म-स्वभावो येषां ते परोपकारव्रतधर्माणः, यथा परोपकारस्तैः क्रियते अयमेव तेषां धर्म इति एवंविधा भवन्ति । "धर्मादनिच-के वलात्" [पा०सू० ५।४।१२४] इति अनिच्प्रत्ययोऽत्र चिन्त्यः निरुपपदपूर्वपदाभावात् । यद्वा, परोपकारो अस्त्येषामिति परोपकारा "अभ्रादित्वादः*" [ ] व्रतमेव धर्मो येषां ते व्रतधर्माणः, परोपकाराश्च ते व्रतधर्माणश्चेति समासो अतो "धर्मादनिच् केवलात्" [५/४/१२४] इति योगेन कथं अनिच् प्रत्यये न भवितव्यं केवलोपपदाभावादिति परास्तम् । नन्वेवं सति विशेष्यपदस्य परोपकारकोटित्वं न विशेषणरूपव्रतपदस्य तत्कथमयं समास इति चेत् ? न “सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामत" [ ] इति न्यायेन व्रत एव परोपकारकोटित्वपर्यवसानात् । तत्-तस्मात् एष त्वं इति प्रार्थ्यसे-याच्यसे । इतीति किम् ? स्वस्य यत्प्रयोजनंदमयन्तीवरणलक्षणं तन्निरपेक्षेण-तदपेक्षारहितेन त्वया अस्मदर्थ-अस्मन्निमित्तं दमयन्ती वरणीया । तत्-इत्युपसंहारे, तस्मात् हे देवि ! देवानां यद् दूतकार्य-दूत्यं तेन निषधेश्वर:-नल आगतः । यदि मदुक्तं न स्वीकरोतु तर्हि देवी वा-अथवा पर्वतकं पृच्छतु । इति श्रुत्वा पुष्कराक्षभाषितम्, ईषद्विषादविलक्षस्मितस्मेरां' दृशं मयि साचि संचारितवती । मयापि संवादिते पुष्कराक्षवचने तस्मिन्, आकस्मिककठोरकाष्ठप्रहारव्यथामिवानुभवन्ती, विन्दतु वीणाक्वणो माधुर्यमितीव प्रतिपन्न-मौनव्रता, लभेतां कर्णोत्पले परभागमितीव मुकुलितनयना, प्राप्नोतु शोभां मुक्तावली दीप्तिजालमितीव मुक्तस्मिता, गच्छतु च्छायां कण्ठावलम्बिनी चम्पकमालेयमितीवाङ्गीकृतवैवा, लभतां लीलाकमलमिदं सौभाग्यमितीवानमितवदना, सा' क्षणमभूत् । इति पुष्कराक्षभाषितं श्रुत्वा सा-भैमी मयि-पर्वतके ईषद् विषादेन-मनागमनः पीडया विलक्ष-वीक्षापन्नं यत् स्मितं-ईषद्धास्यं तेन स्मेरां-विकस्वरां दृशं साचि-तिर्यक् संचारितवती-प्रवर्त्तयामास । “तिर्यगर्थे तिरः साचि" [४।५८१] इति हैमकोषः । मयापि तस्मिन्-पुष्कराक्षवचने संवादिते सति, यथा-देवि ! इत्थमेव यदयं १. * अभ्रादिभ्यः [हैम. ७.२.४६] Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy