________________
सप्तम उच्छासः
५५३ पुष्कराक्षो ब्रूत इति एकवाक्ये कृते सति । आकस्मिकः-अकस्माज्जातः कठोर:-कठिनो यः काष्ठप्रहारः-लकुटप्रघातस्तेन या व्यथा-पीडा तामिव अनुभवन्ती-वेदयमाना सा-भैमी वीणाक्वणः-विपञ्चीस्वनो माधुर्यं-मृष्टं तां विन्दतु-लभतां इतीव हेतोः प्रतिपन्नं-अङ्गीकृतं मौनव्रतं यया सा एवंविधा क्षणमेकमभूत् । मौनं किल तया तव्यथया आश्रितं परं । उत्प्रेक्ष्यते, मयि वदन्त्यां क्व नाम वीणाक्वणे' माधुर्यमिति वीणाक्वणस्य माधुर्यापादनार्थमिति । तथा कर्णोत्पले-कर्णावतंसीकृतकुवलये परभागं-गुणोत्कर्ष शोभातिशयं लभेतामितीव हेतोर्मुकुलिते-संकोचिते नयने यया सा एवंविधा क्षणमेकं अभूत् । मन्नयनयोविकासे एतयोः शोभा का ? इति निमीलितनेत्रा आसीत् । तथा मुक्तावल्यामुक्तालतया यत् दीप्तिजालं-कान्तिवृन्दं तत् शोभां प्राप्नोतु इतीवहेतोर्मुक्तं स्मितं-ईषद्धास्यं यया सा एवंविधा क्षणमेकमासीत् । मद्धास्यशौक्ल्यात् पुरतो मुक्तालताकान्तिः का ? इति हेतोर्हास्यमत्यजदिति । तथा इयं चम्पकमाला कण्ठावलम्बिनी-कण्ठकन्दलन्यस्ता छायां- . शोभां गच्छतु-प्राप्नोतु इतीव हेतोरङ्गीकृतं वैवयं-अङ्गविच्छायता यया सा एवंविधा क्षणमेकमासीत् । तथा इदं लीलाकमलं सौभाग्यं-सर्वजनवाल्लभ्यं लभतामितीव हेतोरवनमितं ईषन्नीचैः कृतं वदनं यया सा एवंविधा क्षणमेकमासीत् ।
तत्र च व्यतिकरेविगलितविलासमपरममाकस्मिकजातभङ्गशृङ्गारम् । मूकितमिव मूर्छितमिवमुद्रितमिव भवनमिदमासीत् ॥ २३ ॥ तत्र च व्यतिकरे-तस्मिन्नवसरे
विगलितेति । इदं भवनं एवंविधमासीत् । किम्भूतम् ? विगलितः-गतो विलास:लीला यत्र तथाविधं, तथा अपगता रमा-लक्ष्मीर्यत्र तत् अपरमं, तथा आकस्मिको जात:उत्पन्नो भङ्गः-विनाशो यत्र स आकस्मिकजातभङ्गः, एवंविधः शृङ्गार:-रसविशेषो यत्र तत् उपरतशृङ्गारमित्यर्थः । तथा मूकितमिव-मौनप्राप्तमिव, तथा मूछितमिव-मूर्छा प्राप्तमिव, तथा मुद्रितमिव-जतुना कृतमुद्रमिव । सर्वत्र "तारकादित्वादितच्"[तदस्य सञ्जातं तारकादिभ्य इतच्] पा०सा० ५।२।३६] तस्यां व्यथितायां सर्वमपि गृहं व्यथितमिव अभूदिति भावः । आर्या ॥ २३ ॥
राजा तु 'पर्वतक, ततस्ततः' ।
पर्वतकोऽपि 'देव, श्रूयताम् ।
१. वीणाक्वणो अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org