SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ ५५४ दमयन्ती-कथा-चम्पू: राजा तु-नल उवाच-हे पर्वतक ! ततस्ततः किं जातमिति गम्यते । पर्वतकोपि वक्तुमुपचक्रमे हे देव ! श्रूयताम्, अतः परं यज्जातम् । अतः परम् ईषन्निःसृतकुन्दकुड्मलसदृग्दन्तप्रभामञ्जरीरोचिष्णुस्मितमन्थरां मयि दृशं संचारयन्ती मनाक् । अस्यन्ती करपद्मभृङ्गमधरे बन्धूकबुद्ध्यागतं, वारंवारमकम्पयत्तरलितस्तोकावतंसं शिरः ॥ २४ ॥ ईषदिति । सा-दमयन्ती वारम्वारं-पुनः पुनः शिरः अकम्पयत्-धुनाति स्म । किम्भूतं शिरः ? स्तोकं-मनाक् तरलित:-कम्पितः अवतंसः-शिरः स्रक् यत्र तत्, "आहिताग्न्यादित्वात् [वाहिताग्न्यादिषु पासू० २।२।३७ ]निष्ठान्तस्य प्रानिपाते" तरलितस्तोकावतंसं । किम्भूता ? ईषत्-मनाक् निःसृतं निर्गतं यत्कुन्दकुड्मलं-कुन्दमुकुलं तेन सदृशी उज्ज्वला या दन्तप्रभामञ्जरी तया रोचिष्णुः-दीपनशीलं यत् स्मितं-ईषद्धास्यं तेन मन्थरा-मन्दा, ईषद्धास्यं कुर्वतीत्यर्थः । तथा मनाक् मयि-पर्वतके दृशं सञ्चारयन्तीप्रवर्तयन्ती, मामवलोकयन्तीत्यर्थः । तथा अधरे-ओष्ठे बन्धूकबुद्ध्या रक्तत्वात् बन्धूककुसुममिदमिति मत्या आगतं करपद्मस्य यो भृङ्गस्तं अस्यन्ती-क्षिपन्ती प्रेरयन्ती । शार्दूलविक्रीडितम् ॥२८॥ ततः परम् । वारितवारविलासिनीचाटुवचनक्रमम्, आकस्मिकविस्मयविस्मृतस्मितविलासम्, अतनुतुहिनाहतनवनलिनदलदीनदीर्घक्षणम्, उष्णसरलश्वासारम्भिविषमविषादविच्छायिताननेन्दुद्युति२, तस्याः स्थानकमवलोक्य सखेदं सखीजनेन देवि, भवन्निःश्वासपवनपरम्परया पर्यस्त इवास्ताचलहस्तावलम्बनमयमाश्रयति भगवान्भानुः, इयं च ३सौभाग्यशालिनि नले निलीनचित्तायास्तवलोकपालपार्थिवयो:४ प्रार्थनाव्यतिकरमिममाकर्ण्य लज्जितेव पिहितश्रवण दूरी भवति वासरश्री:, इमानि निश्चलनिलीनमधुपनिपीयमानगर्भमधूनि सङ्कोचयन्ति लोचनानीव कमलानि, संविभागीकृतविषादा इव विलासवयस्याः सरसी सरोरुहिण्यः, इमाश्च 'कथमस्मत्पतयो मनुष्यकन्यकां कामयन्ते' इतीर्थ्याशोकवशादिव Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy