________________
सप्तम उच्छ्वासः
दिशः श्यामायन्ते, तत्प्रेष्यतामयं पर्वतकः' इत्यभिधीयमाना कथंकथमपि चिन्तान्तरायतिरस्कृतालापमीषदुन्नम्य १० मुखं समुल्लसदशोकपल्लवानुकारि११ करतलमुत्तानीकृत्य मामविस्मरणीयसंमानादानावसाने व्यसर्जयत् ।
ततः परं एवंविधं तस्याः - भैम्या स्थानं - अवस्थामवलोक्य सखेदं यथा भवति तथा सखीजनेन इति, अभिधीयमाना - निवेद्यमाना सती सा भैमी कथं कथमपि महता कष्टेन चिन्तैव अन्तराय:-विघ्नस्तेन तिरस्कृत आलाप:- भाषणं यत्र तत् एवंविधं मुखं ईषद् उन्नम्य-ऊर्ध्वकृत्य समुल्लसन् - विलसन् अशोकपल्लवस्य अनुकारी- अनुकरणशीलो रक्तत्वसाधर्म्यात् यः करतलस्तं उत्तानीकृत्य - उन्मुखं विधाय मां-पर्वतकं अविस्मरणीयंअविस्मृतियोग्यं सन्मानपूर्वकं यद्दानं - अलङ्कारादिवस्तुवितरणं तस्य अवसाने - प्रान्ते व्यसर्जयत्- प्रैषीत्, सगौरवदानं दत्त्वा हस्तसंज्ञयैव मां मुमोचेत्यर्थः । किम्भूतं तस्याः स्थानम् ? वारित:-निषिद्धो वारविलासिनीनां चाटुः - प्रियो वचनक्रमो :- वाक्परिपाटी यत्र तत् तथा हे वारविलासिन्य ! तूष्णीं भजतेति । तथा आकस्मिक:- अकस्माज्जातो यो विस्मयः- आश्चर्यं लोकपालप्रार्थनालक्षणं तेन विस्मृतो विलासः - लीला यत्र तत् । तथा अतनुतुहिनेन-बहुहिमेन आहतं - उपरिपतनेन विध्वस्तं यन्नवनलिनदलं - तरुणपद्मपत्रं तद्वद् दीने-विच्छाये दीर्घे - आयते ईक्षणे यत्र तत् । तथा उष्णः - सोष्मा सरलः दीर्घो यः श्वास:मुखमारुतस्तं आरभते - जनयत्यभीक्ष्णमिति उष्णसरल श्वासारम्भी, एवंविधो यो विषमविषादः-असममन: पीडा तेन विच्छायिता - विवर्णतां प्राप्ता आननेन्दुद्युतिर्यत्र तत् । इति अभिधीयमाने इत्यत्र इतीति किम् ? हे देवि ! अयं प्रत्यक्षो भगवान् भानु:-सूर्य: अस्ताचल एव हस्तावलम्बनं-हस्ताधारो हस्तग्राह्यस्तम्भस्तत् आश्रयति, अस्तगिरिं प्राप्नोतीत्यर्थः । किमिति ? उत्प्रेक्ष्यते, भवत्या निःश्वासपवनस्य या परम्परा - अविश्रान्तं निर्गमस्तया पर्यस्त इव-परिक्षिप्त इव । अन्योऽपि केनचित् बलात्पर्यस्तो भवति सोऽपि पतन् किंचिद्धस्तावलम्बनं स्तम्भादि आश्रयति तथाऽयमपि हस्ताभ्यां अवलम्ब्यते यत्तद्धस्तावलम्बनम् । तथा
देवि ! इयं वासरश्रीः- दिनलक्ष्मीः पिहितः - आच्छादितः श्रवणः - नक्षत्रविशेषो यस्यां एवंविधा सती दूरीभवति दिनं गतमित्यर्थः । उत्प्रेक्ष्यते - सौभाग्येन शालते - शोभत इत्येवंशीलः सौभाग्यशाली तस्मिन् नले निलीनं - निविष्टं चित्तं यस्या । एवंविधायास्तव इ लोकपालश्च पार्थिवश्च जात्यैकवचनं तयोः सम्बन्धिनं प्रार्थनाव्यतिकरं-याञ्चासम्बन्धं आकर्ण्य लज्जितेव- व्रीडितेव । वासर श्रीरिति चिन्तयति - ननु इयं नले निबद्धरागा, अथ च लोकपालाः पार्थिवाश्च इमां प्रार्थयन्ते अहो ! असमञ्जसमिति व्रीडावतीव सती
Jain Education International
५५५
For Personal & Private Use Only
www.jainelibrary.org