SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ ५५६ दमयन्ती-कथा-चम्पू: पिहितश्रवणा दूरीभवति । अन्याप्येवंविधा अकृत्यं श्रुत्वा पिहितश्रवणा-कर्णी पिधाय दूरे गच्छतीति । तथा हे देवि ! तव विलासस्य वयस्याः-सख्यः सरसीसरोरुहिण्यः इमानि कमलानि लोचनानीव संकोचयन्ति-निमीलयन्ति, एतासु भवत्या विलासकरणात् विलासवयस्या त्वमेतासां । किम्भूतानि कमलानि ? निश्चलाः-निभृता निलीनाः-अन्तःप्रविष्टा ये मधुपास्तैर्निपीयमानं-आस्वाद्यमानं गर्भमधु-अन्तवर्तिमकरन्दो येषु तानि । कमलानां लोचनोपमानं भृङ्गाणां य तारकोपमानं । सरसीसरोरुहिण्यः किम्भूताः ? उत्प्रेक्ष्यते, संविभागीकृतः-विभज्य गृहीतो विषादो याभिस्ता एवंविधा इव । मन्ये, सर:पद्मिनीभिरपि स्वकमललोचननिमीलनाद् भवद्विषादो वेंटित्वारे गृहीत इति तव विलाससखीत्वात् । अन्या अपि सख्यः स्वसख्याविषादे विषादिन्यो भवन्ति । तथा हे दमयन्ति ! च-पुनः इमा दिशः श्यामायन्ते-कृष्णीभवन्ति । उत्प्रेक्ष्यते, अस्माकं दिशां पतयः अस्मत्पतयःअस्मत्प्रियाः कथं मनुष्यकन्यां कामयन्ते-अभिलषन्ति इति ईर्ष्या च शोकश्च तयोर्वशादिव । हीनकन्याभिलाषे ईर्ष्या, तत्परिणयने च शोकः । अन्यापि पूर्वप्रिया अपरां स्वतोऽवमां प्रियां प्रत्यभिलाषुकं प्रियं दृष्ट्वा ईर्ष्याशोकवशात् श्यामानना जायते । तत्-तस्मात् हे देवि ! अयं पर्वतक: प्रेष्यतां-प्रियं प्रतिमुच्यताम् । _ विसर्जितश्च तया' तत्कालमाविर्भवद्विषादवशसंपन्नमौनया न पुनः संभाषितोऽस्मि, न वीक्षितोस्मि, न पृष्टम्, नरे संदिष्टं किमपि, केवलं चलन्नेत्रविभागप्रान्ततरत्तारया दृष्ट्या३ समवलोक्य समुत्तानितकरकमलसंज्ञयैव ४संप्रेषितः कथम् इति चिन्तयन्न लसालसमसमञ्जसपातिभिः पश्चिममुखैरिव पादैरहमिहायातवान् । ... तद्देव ! दमयन्ती देवदूतकार्याङ्गीकरणव्यतिकरमिममाकर्ण्य परं विषादमापद्यत । तया-दमयन्त्या विसर्जितश्च अहं इति चिन्तयन् सन् अलसालसं-मन्दं मन्दं असमञ्जसेन-अनौचित्येन पतितुं शीलं येषां ते असमञ्जसपातिनः । एवंविधैः पश्चिममुखैरिव पादैरिह आयातवान् । पश्चिममुखा हि पादा असमञ्जसपातिनो भवन्ति । इतीति किम् ? अस्मीति अव्ययं, अहमित्यर्थे । अहं तत्कालं-तत्समयमेव आविर्भवन्प्रकटीभवन् यो विषादस्तद्वशेन सम्पन्नं-जातं मौनं यस्याः सा एवंविधया भैम्या न पुनः सम्भाषितः-वादितः । तथा अस्मि-अहं न पुनर्वीक्षितः । तथा न पुनः पृष्टं प्रियवार्तादि । तथा पुनः किमपि नलं प्रति न संदिष्टं-न सन्देश उक्तः । केवलं-परं चलन् यो नेत्रविभाग १. एवंविधं अनू. । २. वंटित्वा अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy