________________
सप्तम उच्छ्वासः
५५७ प्रान्तस्तस्मिन् तरन्ती-चञ्चन्ती तारा यस्यां सा तथाविधया दृष्ट्या-नेत्रेण समवलोक्य समुत्तानितं-उन्मुखीकृतं यत्करकमलं तस्य संज्ञयैव-संकेतेनैव कथं-किमपि सम्प्रेषितः ।
तत्-इत्युपसंहारे, तस्मात् हे देव ! दमयन्ती इमं देवदूतकार्यस्य यो अङ्गीकरणव्यतिकरः-स्वीकारसम्बन्धस्तं आकर्ण्य-श्रुत्वा परं-प्रकृष्टं विषादं-मन:पीडां आपद्यत-प्राप्ता ।
अन्यच्च । मन्ये च
परिम्लानच्छायाविरहितसनिद्रद्रुमवनं, पतत्पङक्तीभूतध्वनितशकुनोन्नादितनभः । वियोगव्यापारा दुपनदि रुदच्चक्रमिथुनं
विषीदन्त्यां देव्यामिदमपि विषण्णं जगदभूत् ॥ २५ ॥ अन्यच्च-अपरं च, मन्ये चेति । च-पुनरहमेवमन्ये सम्भावयामि । देव्यां-भैम्यां विषीदन्त्यां-विषादं प्राप्नुवत्यां सत्यां इदं जगदपि विषण्णं-विषादापन्नं अभूत् । जगतो विषण्णतामेवाह-किम्भूतं जगत् ? परिम्लानं पत्रसंकोचवत्, तथा छायया-शोभया विरहितंउज्झितं, तथा सनिद्रमिव-शकुनिकूजनाभावात् प्राप्तनिद्रमिव यत्तत् पश्चात् कर्मधारयः, एवंविधं द्रुमवनं यत्र तत् । तथा पतन्तः-उपरिभागान्नी.र्गच्छन्तः पंक्तीभूताः-श्रेणीभूता ध्वनिता:-शब्दिता ये शकुनाः-पक्षिणस्तैरुन्नादितं-मुखरितं नभः-व्योम यत्र तत् । तथा वियोगव्यापारात्-विरहप्रयोगात् उपनदि-नद्यां रुदत्-अश्रूणि मुञ्चत् चक्रवाकाणां मिथुनं यत्र तत् । एते विषादसूचका भावाः । अन्योऽपि विषण्णः परिम्लानो विच्छायः सनिद्रः पूत्कुरुते रोदिति च । शिखरिणी ॥ २५ ॥
इत्यभिधाय स्थिते पर्वतके तत्कालोचितमिममेवार्थं समर्थयन्नवसरपाठकः पपाठ ।
इति अभिधाय-उक्त्वा पर्वतके स्थिते सति तत्कालस्य-तत्समयस्य उचितं इममेवपूर्वोक्तमेव जगच्छोकलक्षणं अर्थं समर्थयन्-द्रढयन् अवसरपाठकः पपाठ ।
कन्यामन्यानुरक्तां कथममृतभुजो मानुषीं मानयन्ते२, तन्वङ्गीः सस्मितास्याः स्मरविवशदृशो नाकनारीविहाय । वक्तं खेदादिवैतद्दिनपतिरधिकं व्रीडयैवावनम्रः, कोपेनेवारुणांशुः३ प्रविशति वरुणस्यालयं पश्चिमाशाम् ॥२६॥
१. किमिति अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org