________________
दमयन्ती - कथा - चम्पूः
कन्यामिति । अमृतभुज:- देवाः अन्यस्मिन्नले अनुरक्तां रागिणीं मानुषीकन्यां कथं मानयन्ते सत्कुर्वन्ति ? किं कृत्वा ? तन्वङ्गी :- कृशतनुलता:, तथा सस्मितं-सहास्यं आस्यं यासां ता: सस्मितास्याः, तथा स्मरेण विवशाः - परवशा दृशो यासां ताः स्मरविवशदृशः, एवंविधाः नाकनारी:-र - सुराङ्गना विहाय - त्यक्त्वा दिनपतिः - सूर्यः खेदात्- मनस्तापात् एतद्वक्तुमिव वरुणस्यालयं-पश्चिमाशां प्रविशति । खेदस्तु तदकार्यावलोकनात् । किम्भूतो दिनपति: ? उत्प्रेक्ष्यते, अधिकं - अतिशयेन व्रीडयेव अवनम्रः - ईषन्नमनशील:, तथा कोपेनेव अरुण - लोहिता अंशवः -- करा यस्य सः एवंविधः । अन्योऽपि यः कस्यचित् किञ्चिदकृत्यं दृष्ट्वा खेदात् कमपि वक्तुं प्रयाति स लज्जया अवाङ्मुखः कोपेन अरुणमुखश्च स्यादिति । वक्तुं खेदादित्यस्योपयोगि वरुणस्यालयमिति पदं । वचो हि श्रोतारमपेक्षते । मानयन्त इति प्रयोगश्चिन्त्यः, कथं ? यो हि "मन" स्तम्भे" [ ] चुरादौ आत्मनेपदी, स्तब्धो भवतीत्यर्थसूचकः, स चात्र न घटते । पूजार्थस्तु युजादौ परस्मैपदी मानयति मनतीति च । यदुक्तं कविरहस्ये
५५८
"यो धर्मं श्रुतिनिर्मलेन मनसा मीमांसते सर्वदा, यो मान्यान् बहुमानयत्यविरतं भृत्यांश्च संमानति । शत्रौ मानयते मनांसि मनुते यश्चेष्टया देहिनां,
युद्धे वैरिबलं तृणाय सकलं यो मन्यते तेजसा ॥" [ ]
यद्वा 'मानयन्ती 'ति पाठ: पादान्ते लघोरपि गुरुत्वस्य महाकविसम्मतत्वात् । प्रत्यन्तरे तु 'कामयन्ते' इति पाठस्तत्र न कोऽपि दोषशङ्का समुन्मीलति । स्रग्धरा ॥२६॥
राजा तु तदाकर्णयन् अवतीर्य सौधशिखरतलाल्लीलापदप्रचारेण संध्याविरामो 'पविष्ट 'जपद्विजजनसनाथसैकते सरित्सङ्गमे सन्ध्याह्निकमकरोत् ।
ततश्च पश्चिमायां दिशि स्फुरिते ३ सन्ध्यारागे, रुधिरासवपिपासया कालवेतालमण्डलीव प्रधावमाना, त्रिभिः स्रोतोभिः प्रवृत्तया गङ्गया सह संहर्षादिवानेक स्रोतसां सहस्त्रैर्गगनतलमिव प्लावयन्ती कालिन्दीव, व्यजृम्भत तिमिरपटलपङ्क्तिः ।
अनन्तरं च चन्द्रमसा गर्भिणी पौरन्दरी दिक्केतकीकुसुम' पत्त्रपाण्डिमानमगमत् ।
१. मनिण् अनू. । २. तत्र च अनू. । ३. काऽपि अनू. ।
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org