SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पू: ५४८ तथा लावण्यं नयनलेह्यं स्निग्धत्वं तदेव पण्यं पणितव्यं तस्य विपणिमिव हट्टमिव । यथा विपणौ सर्वमपि पण्यं लभ्यते तथाऽस्यां सर्वं लावण्यमिति । तथा विधातुः - वेधसः शिल्पसर्वस्वस्य-शिल्परूपसर्वधनस्य परमा रेखेव या सा तां, अन्यत्र एतादृशं शिल्पं धातुर्न कुत्रापि अस्तीत्यर्थः । तथा अनन्तः - अपर्यन्तः संसार एव रोहणः - रोहणगिरिस्तत्र एकाअद्वितीया रत्नकन्दलीव - रत्नप्ररोहशलाकेव या सा तां, संसारे अत्युत्कृष्टामित्यर्थः । ईक्षणयो:-नेत्रयोरमृतशलाकेव आह्लादजनकत्वात् या सा तां अवलोक्य च अतिशायी - अधिको यो हर्षश्च विस्मयश्च - आश्चर्यं कौतुकं च- -कुतूहलं तैरुत्तानिते - उन्मुखीकृते चक्षुषी येन एवंविधः सन् अहं चिन्तितवान् । इयं हि स्मरराजराजधानी मङ्गलवलभी विलासविहगानाम् । शृङ्गाररङ्गशाला हरति मनः कस्य न जनस्य ॥ २० ॥ इयं हीति । हि-निश्चितं इयं दमयन्ती कस्य जनस्य मनो न हरति-वशीकुरुते ? किम्भूता ? स्मर एव राजा स्मरराजः तस्य राजधानीव, यथा राजधान्यां राजा स्वेच्छया क्रीडति तथाऽस्यां स्मर इति । तथा विलासा एव - विभ्रमा एव विहगाः - पक्षिणस्तेषां मङ्गलवलभीवमङ्गलार्थवेश्माग्रभूमिभाग इव या सा। यथा वलभ्यां विहगाः क्रीडन्ति तथा ऽस्यां विलासा इति । वलभीनाम शोभनकाष्ठरचित आवासविशेष इति केचित् । तथा शृङ्गारस्य- रसविशेषस्य रङ्गशालेवनृत्यशालेव या सा । यथा रङ्गशालायां शृङ्गार उद्भवति तथाऽस्यामपि । आर्या ।। २० ।। दग्धो विधिर्विधत्ते न सर्वगुणसुन्दरं जनं कमपि । इत्यपवादभयादिव सुन्दरी वेधसा विहिता ॥ २१ ॥ दग्ध इति । दग्धशब्दो निन्दार्थे, दग्धः - निन्द्यो विधि: सर्वगुणसुन्दरं - सर्वगुणसम्पूर्णं कमपि जनं न विधत्ते इति योऽसावपवादः - अवर्णस्तद्भयादिव तेनाऽसौ सुन्दरी विहिता । तेनेति विधिना अपवादोद्विग्नेन असौ इति साक्षाद् द्रष्टा सुन्दरीति समग्रगुणसौन्दर्योपेता विहिता । यदाह – श्रीरामसूनुर्गङ्गाधरसूरिः आस्ते प्रियेण परिहासविलासहेला, खेलावलोकपरिरम्भरसोपलम्भा 1 सन्देशमात्रमधिगम्य रसातिरेकाद्, या स्पंदते झटति सा किल सुन्दरीति ॥ ] गुणा:-सौन्दर्यादयो रसशब्देऽन्तर्भूताः । 'शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे 44 १. तां दमयन्तीं अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy