________________
सप्तम उच्छ्वासः
५४७ देवताभिरुपसेव्यमानां वसन्तमासश्रियमिव । किम्भूताभिर्वनदेवताभिः ? उन्मिषन्ति कुसुमान्येव आभरणानि शोभाजनकत्वात् तैः रमणीयाभिः । भैम्यावसन्तश्री: चामरग्राहिणीनां च मूर्ता वनदेवता उपमानम् । पुन: किम्भूतां भैमीम् ? अनुलेपनं-विलेपनं पुष्पाणि च[कु] सुमानि तानि पाण्योर्यासां ता एवं विधाभिः प्रसाधिकाभिः-मण्डनकारिणीभिराराध्यमानां-सेव्यमानां । उत्प्रेक्ष्यते-अनेका:-बढ्यो या नाकिनायकस्य-शक्रस्य नार्यस्ताभिः अप्सरोभिराराध्यमानां भवानीमिव गौरीमिव । ता अपि अनुलेपनपुष्पपाणयो भवन्ति । भैम्या गौरी प्रसाधिकानां च इन्द्ररमण्य उपमानम् । पुनः किम्भूताम् ? इतस्तत:परितो नि:पतत्-निःसरत् मण्डनमणीनां-अलङ्काररत्नानां यन्मयूखमञ्जरीजालं तस्य छलेन अंगेषु-अवयवेषु अमान्तं-अधिकीभवन्तं कान्तिरसं-दीप्तिमकरन्दं उत्सृजन्तीमिवउद्वमन्तीमिव । मन्ये, इमा मण्डनमणिकान्तयो न निःपतन्ति, किन्तु स्वकान्तिरसं एव प्रतीकेषु अमान्तं सन्तं उद्वमतीति । तथा अशेषावयवेषु-समस्ताङ्गेषु प्रतिबिम्बितैःप्रतिफलितैः आसन्ना या चित्रभित्तिः-आलेखवत्कु ड्यं तत्र यानि रूपकाणिआकारास्तैविधीयमानः क्रियमाणः आश्लेषः-सङ्गो यस्याः सा तां । रूपकैः कैरिव ? उत्प्रेक्ष्यते-मायाविभिः-दाम्भिकैः सुरासुरैरिव । मन्ये, अङ्गेषु प्रतिफलितैभित्ति• चित्ररूपैर्नाश्लिष्यते२, किन्तु मायाविभिः सुरासुरैरेव आलिंग्यत इति । मायावित्वं च रूपान्तरकरणादिति । सुरासुरैरिति "विरोधाविवक्षयैकवद्भावाभावः शाश्वतिकविरोधाभावात्" [ ] इति तु उपाध्यायः प्रकाशवर्षः । येषां च विरोधः शाश्वतिकस्तेषामेव द्वन्द्वैकवद्भावः । यथा अहिनकुलं अश्वमहिषं काकोलूकमित्यादि, एषां च न शाश्वतिको जात्या विरोधः किन्तु कार्यकृतस्तेन नैकवद्भावः । तथा च भारवि:"सुरासुरैरम्बुनिधेर्ममन्थ' [किरातार्जुनीयः] इति । यदि वा सुरसहिता असुरा इति "शाक-पार्थिवादित्वात्" [पा०वा०] तत्पुरुषः । पुनः किम्भूताम् ? अग्रस्थिते-पुरःस्थिते पद्मरागमणीनां-लोहितमणीनां यो दर्पण:-आदर्शस्तस्मिन्, कन्दर्पण आतुरः-पीडितस्तस्मिन्, रागिणि-तस्यां प्रेमवति शशिनि-चन्द्रे करुणया-दययाः अपिता-दत्ता छाया-प्रतिबिम्बं यया सा तामिव । मणिदर्पणलक्षणे शशिनि कारुण्यादर्पितप्रतिकृतिमित्यर्थः । अवज्ञातो हि रागी श्रियते४, अतः स्वप्रतिबिम्बं दत्तवतीमिव । तथा मन्मथस्य-स्मरस्य अशेषजगतांत्रिभुवनस्य यो विजयः-वशीकरणं तस्मिन् शस्त्रशलाकामिव-आयुधविशेषमिव । यथा अस्त्रशलाकया वैरी जीयते तथा अनया स्मरस्त्रिलोकी विजेष्यतीति । "शलाका शारिका शल्यं श्वाविदालेख्यकूर्चिका । छत्रपञ्जरकाष्ठीषु" [३।१०१-१०२] इत्यनेकार्थः । शल्यः आयुधविशेषः । तथा सौन्दर्यगुणानां संकेतवसतिमिव-संकेतगृहमिव । यथा संकेतवसतौ संकेतिताः सम्मिलन्ति तथाऽस्यां सौन्दर्यगुणा इति । तथा सौभाग्यमस्या वशे वर्तत इत्यर्थः । १. आलेख्यवत् अनू. । २. विचित्र० अनू. । ३. विविक्षयै० अनू. । ४. म्रियते अनू. । ५. अस्त्रशलाकामिन अनू. ।।
HTTARTHA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org