Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad
View full book text
________________
५५६
दमयन्ती-कथा-चम्पू: पिहितश्रवणा दूरीभवति । अन्याप्येवंविधा अकृत्यं श्रुत्वा पिहितश्रवणा-कर्णी पिधाय दूरे गच्छतीति । तथा हे देवि ! तव विलासस्य वयस्याः-सख्यः सरसीसरोरुहिण्यः इमानि कमलानि लोचनानीव संकोचयन्ति-निमीलयन्ति, एतासु भवत्या विलासकरणात् विलासवयस्या त्वमेतासां । किम्भूतानि कमलानि ? निश्चलाः-निभृता निलीनाः-अन्तःप्रविष्टा ये मधुपास्तैर्निपीयमानं-आस्वाद्यमानं गर्भमधु-अन्तवर्तिमकरन्दो येषु तानि । कमलानां लोचनोपमानं भृङ्गाणां य तारकोपमानं । सरसीसरोरुहिण्यः किम्भूताः ? उत्प्रेक्ष्यते, संविभागीकृतः-विभज्य गृहीतो विषादो याभिस्ता एवंविधा इव । मन्ये, सर:पद्मिनीभिरपि स्वकमललोचननिमीलनाद् भवद्विषादो वेंटित्वारे गृहीत इति तव विलाससखीत्वात् । अन्या अपि सख्यः स्वसख्याविषादे विषादिन्यो भवन्ति । तथा हे दमयन्ति ! च-पुनः इमा दिशः श्यामायन्ते-कृष्णीभवन्ति । उत्प्रेक्ष्यते, अस्माकं दिशां पतयः अस्मत्पतयःअस्मत्प्रियाः कथं मनुष्यकन्यां कामयन्ते-अभिलषन्ति इति ईर्ष्या च शोकश्च तयोर्वशादिव । हीनकन्याभिलाषे ईर्ष्या, तत्परिणयने च शोकः । अन्यापि पूर्वप्रिया अपरां स्वतोऽवमां प्रियां प्रत्यभिलाषुकं प्रियं दृष्ट्वा ईर्ष्याशोकवशात् श्यामानना जायते । तत्-तस्मात् हे देवि ! अयं पर्वतक: प्रेष्यतां-प्रियं प्रतिमुच्यताम् ।
_ विसर्जितश्च तया' तत्कालमाविर्भवद्विषादवशसंपन्नमौनया न पुनः संभाषितोऽस्मि, न वीक्षितोस्मि, न पृष्टम्, नरे संदिष्टं किमपि, केवलं चलन्नेत्रविभागप्रान्ततरत्तारया दृष्ट्या३ समवलोक्य समुत्तानितकरकमलसंज्ञयैव ४संप्रेषितः कथम् इति चिन्तयन्न लसालसमसमञ्जसपातिभिः पश्चिममुखैरिव पादैरहमिहायातवान् । ... तद्देव ! दमयन्ती देवदूतकार्याङ्गीकरणव्यतिकरमिममाकर्ण्य परं विषादमापद्यत ।
तया-दमयन्त्या विसर्जितश्च अहं इति चिन्तयन् सन् अलसालसं-मन्दं मन्दं असमञ्जसेन-अनौचित्येन पतितुं शीलं येषां ते असमञ्जसपातिनः । एवंविधैः पश्चिममुखैरिव पादैरिह आयातवान् । पश्चिममुखा हि पादा असमञ्जसपातिनो भवन्ति । इतीति किम् ? अस्मीति अव्ययं, अहमित्यर्थे । अहं तत्कालं-तत्समयमेव आविर्भवन्प्रकटीभवन् यो विषादस्तद्वशेन सम्पन्नं-जातं मौनं यस्याः सा एवंविधया भैम्या न पुनः सम्भाषितः-वादितः । तथा अस्मि-अहं न पुनर्वीक्षितः । तथा न पुनः पृष्टं प्रियवार्तादि । तथा पुनः किमपि नलं प्रति न संदिष्टं-न सन्देश उक्तः । केवलं-परं चलन् यो नेत्रविभाग
१. एवंविधं अनू. । २. वंटित्वा अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776