Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 691
________________ ५४६ दमयन्ती-कथा-चम्पू: या शशाङ्कशकलश्री:-चन्द्रखण्डशोभा तद्वत् शोभां भजतीति अष्टमीशशाङ्कशकलश्रीशोभाभाक् यस्मिन्१, खण्डशशिनो हि श्रियं ललाटं श्रयति । ललाटे एतत् त्रिपुण्डुकरेखात्रयं । उत्प्रेक्ष्यते, त्रयाणां-सत्वरजस्तमसां पुरुषास्त्रिपुरुषा:-ब्रह्मविष्णुरुद्राः, यथा-"न बाधतेऽस्य त्रिगणः परस्परम्" [किरातार्जुनीय ६-२११] इत्यत्र त्रयाणां-धर्मादीनां गणः त्रिगणः । यथा च श्रीचण्डसिंहकृते चण्डिकाचरिते-"प्रियत्रिवर्गचक्रमे सकामम्" इति। कर्मधारयस्तु संज्ञायामेव । स्मरस्य परवशा-अधीना ये त्रिपुरुषास्तैरिव 'ममेयं ममेयं ममेयम्' इति संहर्षात् स्पर्द्धया कृतं स्वः स्वः-स्वीय: स्वीयो यो वर्णः, यथा सत्त्वस्य धवलो वर्णः, रजसः पिञ्जरो वर्णः, तमसः कृष्णो वर्णस्तस्य अनुकारिअनु क रणशीलं स्वीकारस्य-अङ्गीकारस्य चिह्नमिव-लक्ष्म व । मन्ये, इदं कुङ कुमकस्तूरिकाचन्दनद्रवाणां तिलकरेखात्रयं न, किन्तु सत्त्वरजस्तमःपुरुषैः स्वस्वस्वीकाराय स्वस्ववर्णानुकारि चिह्न न्यस्तमस्तीति । पुनः किम्भूताम् ? कर्णे प्रणयःस्नेहोऽस्यास्तीति कर्णप्रणयी तेन श्रवणन्यसेन बालपल्लवेन-नवकिसलयेन विराजितं वदनं यस्याः सा ताम् । किम्भूतेन ? आ-ईषल्लोहितेन-अरुणेन, उत्प्रेक्ष्यते-त्वदीया या वार्ता:सन्देशास्ता एव अमृतं तस्य पानार्थं बालप्रवालस्य-नवविद्रुमस्य प्रणालकेनेव-प्रणाल्येव । प्रणालशब्दस्त्रिलिङ्गः । प्रणाल्यैव पानीयं प्रविशति तथाऽनेन त्वद्वार्तामृतं पास्यतीति वितय॑ते । तथा आसन्ना-निकटा या मणीनां भित्तिः सैव दर्पणस्तस्मिन् संक्रान्तं प्रतिफलितं-प्रतिबिम्बं आकृतिर्यस्याः सा आसन्नमणिभित्तिदर्पणसंक्रान्तप्रतिबिम्बा तद्भावस्तया बहूनि-अनल्पानि आत्मन:-स्वस्य रूपाणि-आकृतयः सृजन्ती-विदधतीम् । उत्प्रेक्ष्यते- त्वत्सङ्गस्य-त्वदाश्लेषस्य या वाञ्छा-ईहा तया कृतो यः सन्तापः-दुःखं तस्य संविभागार्थमिव-संविभजनार्थमिव । मन्ये, मणिभित्तौ इमानि स्वरूपाणि संक्रान्तानि न, किन्तु बह्वीं विरहव्यथां सोढुमशक्नुवती तां विभज्य विभज्य दातुं स्वरूपाणि बहूनि चकारेति । अन्योऽपि बहुं भारं वोढुमक्षमो विभज्य विभज्य तं अन्येभ्योपि ददातीति । पुनः किम्भूताम् ? सखीभिरुपास्यमानां-सेव्यमानां । किम्भूताभिः सखीभिः ? आसन्ने-निकटे वर्तितुं शीलं यासां ता आसन्नवर्त्तिन्यस्ताभिरासन्नवर्तिभिः, तथा वाणीविनोदे-गीविलासे विदुष्यः-विचक्षणास्ताभिः, तथा वयश्च-कालावस्थावेषश्च आकल्पो वयो वेषौ समानौ-तुल्यो वयो वेषौ यासां तास्ताभिः । उत्प्रेक्ष्यते-सकला या विद्याधिदेवता:-विद्यानामधिष्ठात्र्यो देव्यस्ताभिरुपास्यमानां सरस्वतीमिव-भारतीमिव । भैम्याः सरस्वती सखीनां च विद्याधिदेवता उपमानम् । पुनः किम्भूतां दमयन्तीम् ? उन्मिषन्ति-विकसन्ति यानि कुसुमानि आभरणानि च-अलङ्कारास्तै रमणीयाभिः-सुन्दराभिश्चामरग्राहिणीभिः-प्रकीर्णक१धारिभिरुपसेव्यमानां-आराध्यमानाम् । तां कमिव? उत्प्रेक्ष्यते-शरीरिणीभिर्वन १. तस्मिन् अनू. । २. प्रियत्रिवर्गश्च कमे० अनू. । ३. धारिणीभिरुव, ४. कामिव अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776