SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ दमयन्ती - कथा - चम्पूः इहाकरभूया सिंहलद्वीपभुवा सदृशी, बहुदा त्यागिजनतया तुल्या समृद्धनया भूमिनिखातकृपणजननिक्षेपकुम्भिकया समा, प्रजा । ४८८ इह समकरन्दानि कमलवनानि राजचक्रं ३ च, इह बहुधामानि नगराणि लोकहृदयं च, इह सारम्भाणि कृष्णकुलानि दशरूपकप्रेक्षणं च, इह बहुकृपाणि जनमनांसि प्रजापालबलं च, इह महाविप्राणि ग्रामपुरपत्तनानि मेषगोष्ठं च । इयं च गगनवीथीव पूर्वोत्तराफाल्गुनीराशिवायूपयुक्ता ब्राह्मणाग्रहारभूमिः । इहेति । अथ प्रथमातृतीया श्लेषः । हे देव ! इह देशे सिंहलद्वीपभुवा सदृशी प्रजा वर्तते । किम्भूता ? न करात् - राजांशात् भयं यस्यां सा अकरभया, अकरेत्यर्थः । किम्भूतया भुवा ? न करभा:- उष्ट्रा यस्यां सा तया करभरहितया । तथा इह त्यागिनी - दात्री जनता - जनसमूहस्त्यागिजनता तया तुल्या प्रजा वर्तते । किम्भूता प्रजा ? बह्वी दया यस्याः सा बहुदया । किम्भूतया त्यागिजनतया ? बहु ददातीति बहुदा तया बहुदया, जनानां समूहो जनताग्रामजनबन्धुसहायेभ्यस्तः । तथा हे देव ! इह देशे भूमौ निखाता- निक्षिप्ता कृपणजनानां-अदातृलोकानां या निक्षेपस्य-न्यासस्य कुम्भ्येव - कुम्भिका तया समा प्रजा वर्तते । किम्भूता प्रजा ? समृद्ध: - बहुलो नय: - न्यायो यस्यां सा समृद्धनया । किम्भूतया कुम्भिकया ? समृत् - मृत्तिकोपेतं धनं यस्यां सा तया समृद्धनया । अथ एकवचन-बहुवचन श्लेषः । हे देव ! इह-देशे कमलानि - पद्मानि राजचक्रं च नृपसमूहो वर्ते । * वर्तत इति तिङन्तप्रतिरूपकोऽयं निपातस्तेनैकत्वबहुत्वप्रयोगे अवैषम्यं अर्थवशाद्विभक्तिपरिणामो वा* । किम्भूतानि कमलानि ? सह मकरन्देन रसेन वर्तन्त इति समकरन्दानि । किम्भूतं राजचक्रम् ? समः करः - राजांशो यस्य तत् समकरं तथा दानं अस्यास्तीति दानिदानशौण्डमित्यर्थः । तथा हे देव ! इह - देशे एवम्विधानि नगराणि लोकहृदयं च । किम्भूतानि नगराणि ? बहूनि धामानि - गृहाणि येषु तानि बहुधामानि । किम्भूतं लोकहृदयम् ? बहुधा-अनेकधा मान:- अकृत्यानासेवनेऽहङ्कारोऽस्यास्तीति मानि । तथा देव ! इह-देशे कृषणकुलानि - कर्षककुलानि दशरूपकस्य प्रेक्षणकं च वर्तते । किम्भूतानि कृषणकुलानि ? आरम्भ :- कर्षणोपक्रमैः सह वर्तन्त इति सारम्भाणि । किम्भूतं दशरूपकप्रेक्षणकम् ? सारं - उत्कृष्टं तथा भाण: - रूपविशेषः सोऽस्यास्तीति भाणि । यदाह *–* चिह्नान्तर्गत पाठो नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy