SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ षष्ठ उच्छ्वासः ४८९ धनिकः "भाणस्तु धूर्तचरितं कृतं स्वेन परेण वा । यत्रोधवर्णयेदेको निपुणः पण्डितो विटः ॥" [३/४९] तथा हे देव ! इह-देशे जनमनांसि प्रजापालनस्य राज्ञो बलं च सैन्यं च वर्तते । किम्भूतानि जनमनांसि ? बह्वी कृपा येषु तानि बहुकृपाणि । किम्भूतं प्रजापालबलम् ? बहु-प्रचुर तथा कृपाणः-खड्गोऽस्यास्तीति कृपाणि । तथा हे देव ! इह-देशे ग्रामपुरपत्तनानि मेषगोष्ठं च मेषस्थानं वर्तते । किंभूतानि ग्रामपुरपत्तनानि? महान्तो विप्रा येषु तानि महाविप्राणि । किम्भूतं मेषगोष्ठम् ? महान्तो-ऽवयः-मेण्ढास्त एव प्राणिन-बलवन्तो यत्र तत् महाविप्राणि । गोष्ठशब्दो गोस्थानवाच्यपि उपचारात् मेषाणां स्थानेप्युच्यते । ___तथा हे देव ! इयं च ब्राह्मणानां अग्रहारभूमिः-१ब्राह्मणग्रामवसुधा' । किम्भूता ? पूर्वस्यां उत्तरस्यां अफल्गु-सारं नीरं यस्यां सा । तथा शिवा-कल्याणी, तथा यूपैःयज्ञकीलैर्युक्ता । केव? गगनवीथीव-नभोमार्ग इव । किम्भूता सा ? पूर्वा उत्तराः फाल्गुन्यो नक्षत्राणि राशय:-मेषाद्या वायुः-पवनस्तैरुपयुक्ता-उपयोगी कृता । "अग्रहारो द्विजग्रामः" [ ] इति विषमपदपर्यायग्रन्थे । अत्र अग्रहारपदेनैव द्विजग्राम इत्यर्थस्य लब्धावपि ब्राह्मणेति पदं हयहेषितादिवत् उक्तपोषकत्वाददुष्टम् । इतश्चआरुह्येताः शिखरिसदृशान्ग्राममध्योच्चकूटानन्योन्यांसप्रणिहितभुजाः संगताः कौतुकेन । प्रेक्षावेशादविचलदृशो योषितः पामराणां, पश्यन्त्यस्त्वां निभुततनवो लेख्यलीलां वहन्ति ॥ ६७ ॥ इतश्चेति । हे देव ! इतो वीक्षस्व । आरुयेति । एताः पामराणां-प्राकृतजनानां योषितः शिखरिसदृशान्-गिरिसमान् ग्रामस्य मध्ये उच्चात्-उन्नतान् कूटान्-अवकरोत्करान् आरुह्य-अधिष्ठाय अन्योन्यस्यपरस्परस्य अंसयोः-स्कन्धयोः प्रणिहितौ-स्थापितौ भुजौ याभिस्ता एवम्विधास्त्वां पश्यन्त्यःअवलोकयन्त्यः सत्यः, अतएव निभृता-निश्चला तनुर्यासां एवंरूपां३ लेखस्य-चित्रस्य लीलां-शोभां वहन्ति-बिम्रति । किम्भूताः ? कौतुकेन-कुतूहलेन संगता:-मिलिताः । पुनः किम्भूताः ? प्रेक्षा-अवलोकनं तस्या आवेश:-आग्रहस्तस्मात् अविचले-निश्चले दृशौ यासां १. सेठिया-'ब्रह्मणाधिष्ठितस्थानविशेष: पृ. १२५. बी. ब्राह्मणवसुधा अनू. ।' २. नभोवीथीव गगनमार्ग इव अनू. । ३. एवंरूपा अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy