SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ ४९० दमयन्ती-कथा-चम्पू: ताः । कौतुकान्निश्चलतया पामर्यस्त्वां वीक्षन्ते । तत्रोत्प्रेक्ष्यते, एता: सचेतनाः स्त्रियो न, किन्तु फलकविचित्रताः सन्तीति ॥ ६७ ॥ किं चान्यत्नृप चलसि यथा यथा त्वमस्मिन्नपि वदनानि तथा तथा चलन्ति । तरलितनयनानि पामरीणां पवनविनिर्तित पङ्कजोपमानि ॥ ६८ ॥ किञ्च-पुनरन्यत्-अपरं उच्यते नपेति । हे नृप !-राजन् ! यथा यथा त्वं अस्मिन्प्रदेशे चलसि तथा तथा पामरीणां वदनान्यपि चलन्ति । यतो यतस्त्वं यासि ततस्ततस्ता वीक्षणाय मुखमपि चालयन्तीति भावः । किम्भूतानि वदनानि ? तरलिते-वीक्षणाय कम्पिते नयने येषु तानि तरलितनयनानि । पुनः किम्भूतानि ? पवनेन विनतितानि-चालितानि यानि पङ्कजानि तैरुपमीयन्ते अतिदिश्यन्ते यानि तानि पवनविर्तितपङ्कजोपमानि मुखानि चञ्चलत्वात् वायुप्रेरितपद्मसमानानीत्यर्थः ॥ ६८ ।। अपि चउत्कम्पाद्गलितांशुकेषु रभसादत्यन्तमुच्छ्वासिषु, प्रोत्तुङ्गस्तनमण्डलेषु विलुठद्गुञ्जावलीदामसु । आसां स्वेदिषु दृश्यते मृगदृशां संक्रान्तबिम्बो भवानाश्लिष्यन्निव गोपिकाः कृतबहुप्राकाम्यरूपो हरिः ॥ ६९ ॥ अपि च-पुन: उत्कम्पादिति । हे देव ! आसां मृगदृशां पामरीणां प्रोत्तुङ्गानि-अत्युन्नतानि यानि स्तनमण्डलानि तेषु भवान्-त्वं संक्रान्तं-प्रतिफलितं बिम्बं-प्रतिबिम्बं यस्य स एवंविधो दृश्यते । किम्भूतेषु प्रोत्तुङ्गस्तनमण्डलेषु ? उत्कम्पात्-सात्विकभावात् गलितं-पतितं अंशुकंतदावरणवासो येभ्यस्तानि तथा तेषु । तथा' रभसात्-हर्षात् अत्यन्तं-अतिशयेन उच्छ्वासिषु-उच्चैर्भवनशीलेषु । "रभसो वेगहर्षयोः" इत्यनेकार्थः [३/७९५]। तथा विलुठत्-इतस्ततः परिवर्तमानं गुञ्जावल्याः-कृष्णलाजेर्दाम-माला येषु तानि तथा तेषु । तथा स्वेदः-प्रस्वेदो विद्यते येषु तानि तथा तेषु स्वेदिषु । स्तनमण्डलस्य भ्रष्टांशुकत्वं स्वेदित्वं च नृपप्रतिबिम्बस्य संक्रान्तौ हेतुः । भवान् क इव ? उत्प्रेक्ष्यते, गोपिका: आश्लिष्यन् १. तथा नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy