SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ ४९१ षष्ठ उच्छ्वासः आलिंगन् प्राकाम्यं-महासिद्धिविशेषः प्राकाम्येण रूपाणि प्राकाम्यरूपाणि कृतानि बहुनि प्राकाम्यरूपाणि येन एवंविधो हरिरिव - विष्णुरिव । शङ्के, पामरीस्तनमण्डलसंक्रान्तो भवान् न, किन्तु विष्णुरेव, प्राकाम्येण कृतबहुरूपो गोपिका आश्लिष्यतीति ॥ ६९ ॥ अहो नु खल्वाश्चर्यमिदमेतासां तथाविधनेपथ्यनिरपेक्षाप्युन्मादयति यूनां मनो युवतीनां यौवनश्रीः । " अहो ! इति सम्बोधने हे देव ! नु इति वितर्के, खल्विति वाक्यालङ्कारे, आश्चर्यं - अद्भुतमिदम् । किं तत् ? एतासां - पामरीणां तथाविधं उदारं- हारकुण्डलादिरूपं नेपथ्यं - वेषस्तस्य न विद्यते अपेक्षा - अङ्गीकारो यस्यां सा तादृशा कल्परहितापि यौवनश्रीःतारुण्यलक्ष्मीर्यूनां मन उन्मादयति - सकामं कुरुते । यदि सन्नेपथ्या मन उन्मादयेत्तदा किं चित्रम् ? परं तथाविधनेपथ्यरहितापि मन उन्मादयतीदं चित्रमिति । तथाहि माल्यं मूर्धनि कर्णिकारकलिकाः ३ पिष्टातकं चन्दनं, मुक्तादाम गले च काचमणयो लाक्षामयाः कङ्कणाः । रागोऽङ्गेषु हरिद्रया नयनयोरत्युल्वणं कज्जलं, वेषोऽयं विरसस्तथापि हृदयं ग्राम्या हरन्ति स्त्रियः ॥ ७० ॥ तथाहीति । तथाविधनेपथ्यरहितत्वमेव दर्शयति माल्यमिति । यद्यपि आसां अयं वेषः - आकल्पो विरसः - वैरस्य कारणं नीरागताजनकस्तथापि ग्राम्याः स्त्रियः - पामर्यो हृदयं चेतो हरन्ति - वशी कुर्वन्ति । अयमिति कः मूर्धनि-शिरसि कर्णिकारस्य - द्रुमोत्पलस्य कलिका - कोरकः माल्यं -माला, माल्यस्थाने कर्णिकारकोरकः । तथा हरिद्रा - तण्डुलचूर्ण: पिष्टातकं तदेव चन्दनं - गोशीर्षविलेपनं । चपुन: गले-कण्ठे काचमणयो मुक्तादाम - मौक्तिकमाला, काचः - क्षार मृद्विकारस्तस्य मणय:मणिका: काचमणय: । तथा लाक्षामया: - जतुरसघटिताः कङ्कणाः । तथा अङ्गेषु-अवयवेषु हरिद्रया - रजनीरसेन राग:- अङ्गरागः । तथा नयनयोः अत्युत्कटं - अधिकं कज्जलं । नागरिकाणां हि अञ्जनं रेखितं भवति, एतासां च न तथेति ॥ ६० ॥ इतश्च Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy