SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ ४९२ दमयन्ती-कथा-चम्पू: कन्दलितकन्दविशेषाः कर्क शकर्क टिका विशालकालिङ्गाः कूष्माण्डमण्डितमण्डपाः सुवृत्तवृन्ताकाः सुहस्तितहस्तिकर्णपुनर्नवाः स्थूलमूलकाः पिण्डितपिण्डालवो' वास्तुकवस्तु भूतभूतलाः संजीवितजीवन्तिकाः सर्षपराजिकाराजिराजिताः सरित्सारिणीसारिवारिसेचनसुकुमारविविधपल्लवितरेशाकाः शाकवाटिकाः । __ हे देव ! इतश्च-अस्मिन् प्रदेशे शाकस्य वाटिकाः शाकवाटिकाः । किम्भूताः शाकवाटिकाः ? कन्दला:-प्ररोहाः सञ्जाता एष्विति कन्दलिताः "तारकादित्वात् [तदस्य सज्जातं तारकादिभ्य इतच्.५/२/३६] संजाते इतच् । एवंविधाः कन्दविशेषा यासु ताः । तथा कर्कशा:-कठिना: कर्कटिका:-एरिवो यासु ताः । तथा विशाला:-पृथव: कालिङ्गाःभूमिकारवः कूष्माण्डविशेषा यासु ता विशालकालिङ्गाः । "कालिङ्गस्तु भुजङ्गमे । द्विरदे भूमिकर्कारौ" [३/११९] इत्यनेकार्थः । तथा कूष्माण्डेन-कर्कारुणा मण्डिताः-अलंकृता मण्डपा:-आश्रयविशेषा यासु ताः । तथा सुष्ठ वृत्तानि-वर्तुलानि वृन्ताकानि यासु ताः सुवृत्तवृन्ताकाः । वृन्ताकी-उच्चबृहती तत्फलं वृन्ताकं । "मघाक' श्यामाक वार्ताक वृन्ताक ज्योक नाक गूवाक भद्राकादयः एते आकप्रत्ययान्ता निपात्यन्त" [ ] इत्युणादौ । तथा हस्तिकर्णश्च पुनर्नवा च हस्तिकर्णपुनर्नवे सुष्ठ अतिशयेन हस्तः कन्दोर्भेदः सञ्जाऽतोऽनयोरिति सुहस्तिते तथाविधे हस्तिकर्णपुनर्नवे यासु ताः, द्वावपि वल्लीविभेदौ । तथा स्थूलानि-पीनानि मूलकानि-हरिपर्णानि यासु ताः । तथा पिण्डिताः-एकत्रैवोदभूताः पिण्डालवो यासु ताः । तथा वास्तुकेन-शाकविशेषेण वस्तुभूतं-गणना/ भूतलं यासु ताः । तथा सञ्जीविता-उद्भूता जीवन्तिका-मधुस्रावा यासु ताः । तथा सर्षपाणां राजिकानां च राजसर्षपाणां राज्या-राजिताः । तथा सरित:-नद्यायाः, सारिणी-कुल्या तया सर्तुं प्रवर्तितुं शीलं यस्य तत् सरित्सारिणीसारि, एवंविधं यत् वारि-जलं तेन यत्सेचनं तेन सुकुमारा: विविधाः-नानाविधाः पल्लवा जाता एष्विति एवंविधाः शाका यासु ताः । इतश्च विकचमुचकुन्दानन्दिनो मकरन्दस्यन्दिसुन्दरसिन्दुवाराः पामरीसंकेतनिकेतकेतकीवनाः कम्राम्रातकाः कोरकितकुरटका : कुड्मलितकोल-५ कलाः पल्लवितवल्लीकाः फुल्लम्मल्लिकोल्लासिनः सुजातजातयो विचित्र शतपत्रिकास्ताण्डवितपाण्डुपिण्डितगर करवीरवीरुधो दृश्यमानसर्वर्तुपुष्पाः पुष्पारामाः । १. मवाक अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy