________________
षष्ठ उच्छ्वासः
४९३ हे देव ! इतश्च पुष्पाणां आरामाः-वनानि पुष्पारामाः वर्तन्ते । किम्भूताः पुष्पारामाः ? विक चै:- सविकासै#चुकन्दैः-पुष्पविशेषैः आनन्दन्ति-समृद्धि प्राप्नुवन्त्यवश्यमिति' विकचमुचुकुन्दानन्दिनः-प्रफुल्लमुचुकुन्दपूर्णा इत्यर्थः । तथा मकरन्दस्यन्दीनि-मधुक्षरण-शीलानि सुन्दराणि सिन्दुवाराणि-निर्गुण्डीपुष्पाणि येषु ते । तथा पामरीणां सङ्केतनिकेतनानि-सङ्केतस्थानानि केतकीवनानि येषु ते । तथा कम्रा-रम्या आम्रातकाः-वर्षपाकिनो वृक्षा येषु ते । तथा कोरकिता:-कुड्मलिताः कोरण्टको येषु ते । तथा कुड्मलितानि-जातमुकुलानि अर्धविकसितपुष्पसहितानि कक्कोलकानि-कोशफलानि येषु ते, कुड्मलं अर्धविकसितमुच्यते । तथा पल्लविता:-सञ्जातकिसलया वल्लयःवीरुधो लता येषु ते । तथा फुल्ला-विकसिता या मल्लिकाः-विचिकिलपुष्पाणि२ ताभिरुल्लसितुं शोभितुं शीलं येषां ते फुल्लमल्लिकोल्लासिनः । तथा सुष्ठ जाताः-उत्पन्ना जातयः-मालत्यो येषु ते । तथा विचित्रा:-विविधाः शतपत्रिका-पुष्पभेदो येषु ते । तथा ताण्डविता:-प्रफुल्लाः पाण्डवः-श्वेताः पिण्ड्यश्च-अलावस्तगराश्च३ करवीराश्च-हयमारा वीरुधश्च-लता येषु ते । यद्यपि ताण्डवशब्दो नृत्यविशेष वर्तते तथाप्यत्रोपचारात् विकासार्थस्ततो जाता इतच् । तथा दृश्यमानानि सर्वेषां ऋतूनां-वसन्तादीनां पुष्पाणि येषु ते । यद्वा, दृश्यमानानि सर्वेषु ऋतुपुष्पाणि येषु ते ।
इतश्च–नातिदूरे दक्षिणदिशि दृशं निवेशयतु देवः । एतास्ताः परिपक्वशालिकलमाः सुस्वादुदीर्घक्षवो, वप्रप्रान्तहरित्तृणस्थलचलत्पीनाङ्गगोमण्डलाः । दृश्यन्ते पुरतः सरोरुहवनभ्राजिष्णुनीराशयः१, प्रान्तोन्नादिविचित्रपत्रिनिचयाः सस्यस्थलीभूमयः ॥ ७१ ॥
इतश्च-अस्मात् प्रदेशान्नातिदूरे-समीपे दक्षिणदिशि देवः-राजा दृशं निवेशयतुस्थापयतु, पश्यतु इत्यर्थः । ।
हे देव ! एतास्ताः५ सस्यस्थलीभूमयः-धान्योत्पत्तिभूमयः पुरतः-अग्रतो दृश्यन्ते । किम्भूताः सस्यस्थलीभूमयः ? परिपक्वा:-परिपाकं प्राप्ताः शालयः-सामान्यव्रीह्यः कलमाश्च-तद्विशेषा यासु ताः । तथा सुस्वादव:-मृष्टा दीर्घा:-प्रलम्बा इक्षवः-रसाला यासु ताः । तथा वप्रप्रान्तेषु-तटावसानेषु यानि हरित्तृणानां नीलतृणानां स्थलानि-प्रदेशास्तेषु चलत्विचरत् पीनाङ्ग-स्थूलदेहं गोमण्डलं-धेनुसमूहो यासु ताः । तथा सरोरुहवनेन-पद्मखण्डेन
१. आप्नुवन्त्य० अनू. । २. विचकिल० अनू. । ३. अलाब्वः अनू. । ४. पश्यन्तु अनू. । ५.
एता इति । अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org