________________
४९४
दमयन्ती-कथा-चम्पूः भ्राजिष्णुः-शोभनशीलो यो नीराशयः-जलाश्रयस्तस्य प्रान्ते उन्नादिनः-उन्नदनशीला ये विचित्राः पत्रिणः-विविधपक्षिणस्तेषां निचयः-समूहो यासु ताः । शार्दूलविक्रीडितम् ॥७१॥
स्वःसौन्दर्यविडम्बि कुण्डिनमिदं सैषा विदर्भा नदी, सा चेयं वरदा स चायमनयोः पुण्याम्भसोः सङ्गमः । अस्यैवोन्मदहंसहारिणि तटे सेनास्थितिः कल्प्यतां', यस्मिन्मत्तकरीन्द्रकुम्भकषणक्रीडासहाः पादपाः ॥ ७२ ॥
स्वरेति । हे देव ! इदं प्रत्यक्षं कुण्डिनं-कुण्डिनाभिधं पुरम् । किम्भूतम् ? स्वःस्वर्गस्य सौन्दर्य-रामणीयकं विडम्बयति-अनुकरोतीत्येवंशीलं यत्तत् स्व:सौन्दर्यविडम्बि, यादृशं स्वर्गस्य सौन्दर्यं तादृशमेतस्यापीति । हे देव ! सेति-उक्त पूर्वा एषा-प्रत्यक्षा विदर्भा नदी । हे देव ! सा चेयं वरदाभिधा नदी । स च अयं अनयो:- विदर्भावरदयोः सङ्गम:संयोगः । किम्भूतयोरनयोः । पुण्यं-पवित्रं अम्भः जलं ययोस्ते तयोः पुण्याम्भसोः । हे देव ! अस्यैव नद्योः सङ्गमस्यैव तटे-तीरे सेनायाः स्थिति:-अवस्थानं कल्प्यतां-क्रियतां । किम्भूते तटें? उन्मदाः-हृष्टाः ये हंसास्तैर्हारिणि-मनोज्ञे । यस्मिन् तटे मत्ता:-मदाकुला ये करीन्द्राः-हस्तिनस्तेषां कुम्भयोः कषणक्रीडां-घर्षणकेलिं कण्डूयलीलां सहन्ते-क्षमन्ते ये ते मत्तकरीन्द्र कुम्भकषणक्रीडासहाः, एवम्विधाः पादपाः-तरवः सन्ति । एतावता सेनावस्थानौचित्यं दर्शितम् । शार्दूलविक्रीडितम् ॥ ७२ ॥
एवमनेकधा दर्शनीयप्रदेशप्रकाशनव्याजेन विनोदलीलां पल्लवयति पुष्कराक्षे, प्राप्ताः कुण्डिनपुरम् इत्युच्छ्वसितहृदयो निषधेश्वरः परमपरितोषात्पारितोषिकप्रदानपूर्वमिदमवादीत् ।
'भद्र, भवतः सौकुमार्यमाधुर्यमधुमिश्रभङ गश्लेषगर्भोक्तिभिराक्षिप्तमनसामस्माकमविदित इव, अदृष्टसमविषमविभाग इव, अनुत्पादितखेद४ इव, अर्धगव्यूतमात्रऽमिवातिक्रान्तः५ क्रीडाविहारभूमिसमो महानपि मार्गः। समुचितश्चायं सेनानिवेशस्य सरित्सङ्गमोपकण्ठवनविभागः ।
एवं-अमुना प्रकारेण अनेकधा-बहुधा दर्शनीया:-द्रष्टुं योग्या ये प्रदेशा:-उद्देशास्तेषां यत्प्रकाशनं-प्रदर्शनं तस्य व्याजेन-दम्भेन पुष्कराक्षे विनोदलीलां-कौतुकविलासं पल्लवयति-वर्द्धयति सति, कुण्डिनपुरं प्राप्ता इति हेतोरुच्छ्वसितं-उल्लसितं हृदयं-मनो यस्य स, एवंविधो निषधेश्वर:-नलः परमो यः परितोषः-आह्लादस्तस्मात् पारितोषिकं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org