________________
षष्ठ उच्छ्वासः
४९५ प्रैतिकं वासनारूपं यत्प्रदानं-हारकेयूरादेवितरणं तत्पूर्वमादौ यस्मिन् तत् यथा भवति तथा इदं-वक्ष्यमाणं अवादीत् ।
हे भद्र !-पुष्कराक्ष ! भवतः-तव सौकुमार्य-सुकुमारता माधुर्यं-मधुरता मृष्टता त एव मधु:-क्षौद्रं तेन मिश्रः-सहितो यो भङ्गश्लेष:-वक्रोक्तिः सगर्भ-मध्ये यासां एवंविधाभिरुक्तिभिः-वचनैराक्षिप्तं-हृतं मनो येषां ते तेषां, त्वद्वा श्रवणव्यासक्तमनसामस्माकं महानपि मार्गः अविदित इव-अज्ञात इव न ज्ञातं, यथा मार्गे गम्यत इति । तथा न दृष्टः समः- प्रसमः विषमश्च-वक्रो भागो यस्य स तथाविध इव । तथा न उत्पादितः खेदः- श्रमो येन एवंविध इव, तथा अर्द्धगव्यूतमात्रमिव । तथा क्रीडार्थं या विहारभूमिस्तस्याः समः-सदृशः क्रीडाविहारभूमिसदृश:-क्रीडाविहारस्थलीव अतिक्रान्तः महानपि पन्थाः स्तोको जात इत्यर्थः । च-पुनः सेनासन्निवेशस्य-शिबिरस्य अयं सरितोर्यः सङ्गमस्तस्य उपकण्ठे-समीपे यो वनविभागः स समुचित:-योग्यः ।
तथा हि
इह भवतु निवासः सैनिकानामिहापि, श्रमतरलतुरंगग्रासयोग्या तृणाली । इह हि कवलयन्तः पल्लवान्वारणेन्द्रा,
विदधतु तरुखण्डे गण्डकण्डूयनानि ॥ ७३ ॥ तथाहीति । सेनासन्निवेशौचित्यमेव दर्शयति ।
इहेति । इह-प्रदेशे सैनिकानां-चमूचराणां निवासः-अवस्थानं भवतु । इहापि-प्रदेशे श्रमेण-मार्गातिक्रमणजन्यखेदेन तरला:-चञ्चला ये तुरङ्गास्तेषां ग्रासः-भक्षणं तस्य योग्या तृणाली-तृणराजिवर्त्तते । हि-निश्चितं इह-प्रदेशे वारणेन्द्राः-गजेन्द्राः पल्लवान्-किसलयानि कवलयन्तः-भक्षयन्तः सन्तस्तरुखण्डे-द्रुमवने गण्डयोः कण्डूयनानि-कषणानि विदधतुकुर्वताम् । मालिनी ।। ७३ ॥
इतश्चात्यन्तमनोहरतयास्माकमासनयोग्या सरित्सङ्गमोत्सङ्गभूमयः ।
इतश्च-अस्मिन्प्रदेशे अत्यन्तमनोहरतया-अतिशयेन चारुतया सरितोः संगमः सरित्संगमस्तस्योत्सङ्गभूमयः अस्माकं आसनयोग्या:-निषदनोचिता वर्तते ।
तथाहि१. वर्तन्ते अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org