SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ ४९६ तथाहीत तदुत्सङ्गभूमीनां रम्यत्वमेव दर्शयतिअपसृताम्बुतरङ्गितसैकता निचुलमण्डपनृत्तशिखण्डिकाः । कुररसारसहंसनिषेविताः पुलकयन्ति न कं पुलिनश्रियः ॥ ७४ ॥ अपेति । एताः पुलिनश्रियः-सरित्सङ्गमसैकतलक्ष्म्यः कं पुरुषं न पुलकयन्तिरोमाञ्चन्ति ? अपितु सर्वमपि आनन्दयन्तीत्यर्थः । किम्भूताः पुलिनश्रियः ? अपसृत्यतीरमागत्य पश्चान्निवृत्तं यदम्बुः - जलं तेन रङ्गितं - जाततरङ्गाकारं सैकतं -सिकतासमूहो यासु ता: । समूहार्थे अण् । तथा निचुलानां - हिज्जलानां मण्डपेषु नृत्ताः शिखण्डिन:- मयूरा यास ताः । बहुव्रीहौ कः । तथा कुरराश्च सारसाश्च हंसाश्च तैर्निषेविताः-सेविताः । एभिर्विशेषणैर्पुलिनभूमीनां रम्यत्वं दर्शितम् । द्रुतविलम्बितम् ॥ ७४ ॥ इत्यभिधाय भद्र, यथाक्रममकृतान्योन्यसम्बंध' कलहम्, अनुपद्रुततीर्थायतनम् अलुण्ठितासन्नोद्यानम्, अच्छिन्नचैत्यद्रुमम् अखण्डितकमल वनं निवेशय सैन्यं इति सेनापतिमादिदेश । सोऽपि यथादिष्टमनुतिष्ठन्निदमवादीत् । इति- पूर्वोक्तप्रकारेण अभिधाय - उक्त्वा नलः सेनापतिं बाहुकनामानं इति आदिदेशआदिष्टवान् । इतीति किम् ? हे भद्र ! - कल्याणकारिन् ! सेनापते ! सैन्यं निवेशय- स्थापय । कथं ? यथा भवतीत्याह - क्रमं पूर्वस्यान्ते - उत्तरस्यान्ते इत्यादिरूपां परिपार्टी अनतिक्रम्य यथाक्रमं येषां यदुचितं स्थानं तेषां तद् दत्त्वेति भावः । तथा न कृतं सैनिकैः अन्योन्यंपरस्परं सम्बन्धे-संयोगे कलहो यत्र तत् । तथा न उपद्रुतानि - भग्नानि तीर्थायतनानि यत्र तत् । तथा न लुण्टितानि - विध्वस्तानि आसन्नोद्यानानि यत्र तत् । तथा चैत्या:ग्रामप्रदेशप्रसिद्धवृक्षा न छिन्ना: - लूनाश्चैत्यद्रुमा यत्र तत् । तथा न खण्डितं कमलवनं यत्र । एवं यथा भवति तथेति क्रियाविशेषणानि ज्ञेयानि । दमयन्ती - कथा - चम्पूः सोऽपि-सेनापतिः आदिष्टं अनतिकम्य यथादिष्टं यथा राज्ञोक्तं तथैव अनुतिष्ठन्कुर्वन् इदं वक्ष्यमाणं अवादीत् । 'भजत बलसमूहाः खर्वदूर्वास्थलानि, स्थविरशुकविजीर्यत्पक्षपिच्छच्छवीनि । १. कृतः अनू. । Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy