SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ षष्ठ उच्छ्वासः ४८७ परिपूर्णां रमणीयतां-रम्यतां विलोक्य, अत्र सह अलवनेन-अच्छेदनेन वर्तत इति सालवनं तस्मिन् सालवने, सालानां-सर्जतरूणां वने मया समं कदा सा-दमयन्ती विहरिष्यति-क्रीडिष्यति । अत्र प्राच्यः सानुशब्दस्तटार्थो अन्यश्चाध्वार्थः । यद् विश्वप्रकाश:-"सानु शृङ्गे बुधे मार्गे शय्यायां पल्लवे वने" [नान्त. १९ ] । यदि वा “णू स्तवने" [पा. धा. १३९८] आनवनमानूः प्रशंसा तया सह वर्तन्त इति सानूनि तेषां स्तुत्यर्थानामित्यर्थः । आर्या ॥१५॥ सखे सखेदा इव वयम्, तत्कथय कियद्रेऽद्यापि स वैदर्भविषयः, यत्र ब्रह्माण्डशुक्तिसंपुटमध्यमुक्ताफलगुलिकया तयालङ्कृतं तत्कुण्डिनं नगरम् इत्यभिदधाने निषधनाथे तैस्तैरालापैरनुवतितोक्तिः पुष्कराक्षोऽप्यभाषत । 'देव, प्राप्ता ननु वयम् । हे सखे ! पुष्कराक्ष ! वयं सखेदा इव-खिन्ना इव वर्तामहे, तत्-तस्मात् कथय, अद्यापि कियद्रे-कियद् विप्रकृष्टे स वैदर्भदेशविषयः-वैदर्भदेशः । यत्र वैदर्भविषये ब्रह्माण्डमेव शुक्तिसम्पुटस्तन्मध्ये मुक्ताफलगुलिकेव या सा तया, स्थूलवृक्षत्वात् गुणिकाकारत्वं मुक्ताफलस्य । तथा दमयन्त्या अलङ्कृतं-मण्डितं तत् कुण्डिननगरमित्यभिदधाने-वदति सति निषधनाथे-नले तैस्तैरद्भुतैरालापैः-सम्भाषणैरनुवर्तिता-अनुसृता उक्ति:-नलकथनं येन सः । यथा स्वामिन् ! इदमित्थमेव यद्भवद्भिरुच्यत इति पद्धत्या अङ्गीकृतनलवाक्यः पुष्कराक्षोऽप्यभाषत । हे देव ! नन्विति सम्यग्वादे वयं प्राप्ताः विदर्भदेशमिति शेषः । “ननु च प्रश्ने दृष्टोक्तौ सम्यग्वादे स्तुतावपि" इत्यनेकार्थः [परि. ६१] । इदं हिइदं हीति । . वीरपुरुषं तदेतद्वरदातटनामकं महाराष्ट्रम् । - दक्षिणसरस्वती सा वहति विदर्भा नदी यत्र ॥ ६६ ॥ वीरेति । हे देव ! एतत् वरदातटनामकं महाराष्ट्र-महामण्डलं वर्तते । किम्भूतं ? वीराः-शूराः पुरुषा यत्र तत् । हे देव ! सा दक्षिणसरस्वतीनगरी, यत्र दक्षिणसरस्वत्यां विदर्भानदी वहति ॥ ६६ ॥ १. स्तुत्यानामित्यर्थः अनू. । २. कियति अनू. । ३. देश नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy