SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ ४८६ दमयन्ती-कथा-चम्पू: अवलोकयिष्यावः । विन्ध्यवनवीथीं कामिव ? दमयन्तीमिव । किम्भूतां विन्ध्यवनवीथीम् ? विचित्राणि-लघुगुरुत्वभेदेन विविधानि पत्राणि-दलानि येषु एवम्विधा लकुचा:तरवो यस्यां सा तां । दमयन्ती तु विविधपत्रवल्लीयुक्तस्तनी पत्रं लात इति के पत्रलौ । तथाहि पीनोन्नमद्धनपयोधरभारभुग्नमध्यप्रदेशरुचिमल्लवलीलतायाः । उत्कण्ठितोऽस्मि चलदेणदृशः प्रियाया स्तस्याश्च पर्वतभुवो वनवीथिकायाः ॥ ६४ ॥ तथा हीति । दमयन्ती विन्ध्यवनवीथ्योरभिलषणीयत्वमेवाह पीनेति ? हे पुष्कराक्ष ! तस्याः प्रियायाः-दमयन्त्याः पर्वताद-विन्ध्यगिरेर्भवति स्म-अजायत इति पर्वतभूस्तस्याः पर्वतभुवः-पर्वतोत्पन्ना या वनवीथिकायाश्च अहं उत्कण्ठितः-मिलनाय उत्सुकोऽस्मि । किम्भूतायास्तस्याः ? पीनौ-मांसलौ उन्नमन्तौ-उन्नतौ घनौ-कठिनौ यौ पयोधरौ-कुचौ तयोरिण-भरेण भुग्ने-निम्ने मध्यप्रदेशे-उदरे रुचि-शोभां मल्लन्ते-धारयन्तीत्यणि, पीनोन्नमद्घनपयोधरभारभुग्नमध्यप्रदेशरुचिमल्ल, एवम्विधा वल्लय एव लता यस्याः सा तस्याः । वलीनां लतात्वं सुकुमारत्वात् तनुत्वाच्च वली-उदरलेखा । तथा चलतां एणानामिव दृशौ यस्याः सा तस्याः । किम्भूताया वनवीथिकायाः। पीन:जलभृतत्वात् उन्नमत्-उन्नतो वर्षार्थं गृहीतयत्नो घन:-निविडो यः पयोधरः-मेघस्तस्य भारेण भुग्न:-निम्नो मध्यप्रदेश:-मध्यभागो यस्या एवम्भूता रुचि-मती तेजस्विनी-लवली नाम्नी लता यस्यां सा तस्याः । तथा चलत् एणानां-दृक्दर्शनं यस्यां सा तस्याः । वसन्ततिलका ॥ १४ ॥ अपि च सानूनां सामूनां विलोक्य रमणीयतां हि सानूनाम् । सालवने सालवने विहरिष्यति सह मयाऽत्र कदा ॥ ६५ ॥ अपि च-पुन:सानूनामिति । हि-निश्चितं सानूनां-तटानां सम्बन्धिनो ये सानव:-मार्गास्तेषां अनूनां Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy