________________
षष्ठ उच्छासः
४८५
१निर्यन्निर्झरवारिवारिततृष स्तृप्यन्ति येषां फलैस्ते नन्दन्तु फलन्तु यान्तु च परामभ्युन्नतिं पादपाः ॥ ६२ ॥ अपि च-पुन: पादपानां दुस्त्यजत्वमेवाह
भ्राम्यदिति । ते पादपाः-वृक्षा नन्दन्तु-समृद्धिमाप्नुवन्तु, च-पुनः फलन्तु, तथा परां-प्रकृष्टां अभ्युन्नति-उदयं यान्तु-लभन्ताम् । ते' इति के? येषां पादपानां तलेषु गेहेष्विव पान्थनिचयाः-अध्वगसमूहा विश्रम्य-खेदमपनीय निर्यत्-निःसरत् यत् निर्झरवारिप्रस्रवणजलं तेन वारिता-छिन्ना तृट् यैस्ते एवम्विधाः सन्तः फलैस्तृप्यन्ति-आघ्राता भवन्ति । यथा गेहेषु पान्था विश्रम्य पानीयेन छिन्नतृषः सन्तः फलैरन्नादिभिस्तृप्यन्ति तथैष्वपि । "तृप्त्यर्थानां करणे षष्ठी च" [ ] इति सूत्रात् विभाषया फलैरिति प्रयोगः । किम्भूतेषु तलेषु ? भ्राम्यन्तः-विचरन्तो ये भृङ्गास्तेषां भरेण-भारेण अवनम्राणिईषन्नमनशीलानि यानि कुसुमानि अतएव तेभ्य: श्च्योतत्-क्षरत् यन्मधुररसस्तेन उत्कृष्टो गन्धः-परिमलो येषु तानि तथा तेषु । “गन्धस्येदुत्पूतिसु सुरभिभ्यः" [पा. सू. ५/४/१३५] इति गन्धस्येकारान्तादेशो बहुब्रीहौ । पुनः किम्भूतेषु ? छाया-आतपाभावो विद्यते येषु तानि तथा तेषु । शार्दूलविक्रीडितम् ।। ६२ ।।
अपि चयत्र न फलितास्तरवो विकासिसरसीरुहाः सरस्यो वा । न च सज्जनाः स देशो गच्छतु निधनं श्मसानसमः ॥ ६३ ॥ अपि च-पुनः
यत्रेति । यत्र-देशे फलिताः-फलिनस्तरवः-वृक्षा न, पुनर्यत्र-देशे सरस्यः-सरांसि विकासीनि-विकसनशीलानि सरसीरुहाणि-पद्मानि यासु एवम्विधा न । वा-पुनरर्थः । च-पुन:, यत्र-देशे न सज्जनाः-सन्तः स देशो निधनं-विनाशं गच्छतु -प्राप्नोतु । किम्भूतः स देशः ? श्मसानेन समः-सदृशः । देशश्मसानयो:३ समानतायामरतिजनकत्वं हेतुः । आर्या ।। ६३ ।।
तत्कथय कदा पुनरिमां विन्ध्यवनवीथीं विचित्रपत्रलकुचां दमयन्तीमिव निर्विघ्नमवलोकयिष्याव:५ ।
तत् इत्युपसंहारे, तस्मात् हे पुष्कराक्ष ! त्वं कथय । पुनः कदा-कस्मिन्काले इमांविन्ध्यवनवीथीं-विन्ध्यगिरिकाननमार्ग निर्विघ्नं-विघ्नरहितं यथा भवति तथा आवां
१. ते नास्ति अनू. । २. श्मशानयोः अनू. । ३. समतायां अनू. I * तृप्तार्थपूरणाव्ययातृश्शत्रानशा
[हैम. ३/१/८५]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org