SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ ४८४ दमयन्ती-कथा-चम्पू: एवम्विधं पुष्कराक्षमवलोक्य नलः अभाषत-अवोचत् । मुखस्य परिवर्तने तरूणां रम्यत्वं स्निग्धत्वं च हेतुः । अथ यदभाषत तदाह हे भद्र !-पुष्कराक्ष ! खलुः-वाक्यालङ्कारे, अमी विन्ध्यतटीतरवः-विन्ध्याचलतीरतरवो दुस्त्यजा:-दुःखेन त्याज्याः । तथाहिआवासाः कुसुमायुधस्य शबरीसंकेतलीलागृहाः, पुष्पामोदमिलन्मधुव्रतवधूझङ्काररुद्धाध्वगाः । सुस्निन्धाः प्रियबन्धवा इव दृशो दूरीभवन्तश्चिरात्कस्यैते न दहन्ति हन्त हृदयं विन्ध्याचलस्य द्रुमाः ॥६१॥ तथाहीति । विन्ध्यतरूणां दुस्त्यजत्वमेवाह आवासा इति । हन्त इति खेदे । एते विन्ध्याचलस्य द्रुमा दृशो दूरीभवन्तः सन्तः चिरात्-चिरकालं कस्य हृदयं -चेतो न दहन्ति-न दुन्वन्ति ? अपितु सर्वस्यापि । द्रुमाः के इव ? सुस्निग्धाः सुष्ठ स्नेहलाः प्रियबान्धवा इव-इष्टस्वजना इव । यथा सुस्निग्धाः प्रियबान्धवा नेत्राद् दूरीभवन्तो हृदयं दहन्ति तथा अमी अपि । बन्धुरेव बान्धवः प्रज्ञादित्वात् णः [ प्रज्ञादिभ्यश्च, पा. सू. ५/४/३८] यतः किम्भूताः द्रुमाः ? कुसुमायुधस्य-कामस्य आवासाः-गृहाः । यथा गृहेषु सुखेन स्थीयते तथाऽत्रापि कामः सुखेन तिष्ठतीति भावः । तथा शबरीणां, संकेतस्य-संगरस्य लीलागृह इव ये ते । शबर्यो लीलागृहेष्विव अत्र संकेतं कुर्वन्तीति भावः । तथा पुष्पामोदेन-कुसुमसौरभ्येण मिलन्त्यःपुञ्जीभवन्त्यो या मधुव्रतवध्वस्तासां झङ्कारेण रुद्धा-माधुर्यरसादन्यत्रगमनान्निवारिता । अध्वगा:-पान्था येषु ते, मधुकरमधुरध्वानश्रवणरसादध्वगास्तत्रैव तिष्ठन्तीति भावः । एभिर्विशेषणैस्तेषां दुस्त्यजत्वमुक्तम् । शार्दूलविक्रीडितम् ॥ ६१ ॥ अपि चभ्राम्यद्धृङ्गभरावनम्रकुसुमश्च्योतन्मधूगन्धिषु, च्छायावत्सु तलेषु पान्थनिचया विश्रम्य गेहेष्विव । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy