________________
४८३
षष्ठ उच्छवासः अनिम्नगात्रः कथं भवेदित्यादिस्पष्टमेव । इतीति किम् ? हे देव!-राजन् ! भवता विलोक्यतां-वीक्ष्यताम् । विलोकनीयमेवाह-इह-वनप्रदेशे पन्नगकुलानि द्रोणीगहनं चशैलसन्धिगह्वरं सन्तीति अध्याह्यिते, एवमग्रेपि । किम्भूतानि पन्नगकुलानि ? विषमं-उग्रं विषं येषु तानि विषमविषाणी । किम्भूतं तत् ? विषमा- विषाणि नोदन्तिन:-शृङ्गिणो वा शबरादयो यत्र तत् । तथा हे देव ! विलोक्यतां इह-प्रदेशे वनानि पापद्धिः-मृगया तस्यां परं-तत्परं पुलिन्दानां वृन्दं च । किम्भूतानि वनानि ? शरेण-मुजेन अशनेन चबीजकवृक्षण करम्बाणि-शबलानि । किम्भूतं पुलिन्दवृन्दम् ? शरासनं-धनुः करे यस्य तत्, तथा बाणाः सन्त्यस्येति बाणि-सशरं । तथा हे देव ! विलोक्याताम्-इह-प्रदेशे शबरद्वन्द्वानि-पुलिन्द- मिथुनानि रत्नाकरस्थलं च । किम्भूतानि, शबरद्वन्द्वानि ? बहु-प्रचुरं सुखं येषां तानि बहुसुखानि । किम्भूतं रत्नाकरस्थलम् ? बहु-विपुलं तथा सुष्ठ खानिःआकरो यत्र तत् । बहुशब्दो वैपुल्येपि । तथा हे देव ! विलोक्यतां-इह-प्रदेशे फलानि कीचकवनं-सच्छिद्रवंशवनं च । किम्भूतानि फलानि ? सुष्ठ मधुराणि-मृष्टानि । किम्भूतं कीचकवनम् ? सुष्ठ मधु:-क्षौद्रं यत्र तत् सुमधु, तथा रणत्यवश्यं राणि सच्छिद्रा हि वंशा वायुवशात् रणन्तीति । तथा हे देव ! विलोक्यतां इह-प्रदेशे कुसुमानि-पुष्पाणि सरित्तीरं च । किम्भूतानि कुसुमानि ? आमोदिताः-सुरभिता विश्वा:-सर्वाः ककुभः-दिशो यैस्तानि । किम्भूतं सरित्तीरम् ? आमोदिता-हर्षिता वयः-पक्षिण: श्वका:-शुनः प्रतिकृतयो-वृकाः कुम्भिनश्च-गजा यत्र तत् । आमोदो हर्षे, यद्विश्वप्रकाश:-"आमोदो गन्धहर्षयोः" [दान्त. १९] । यदा तु विश्वा-शुण्ठी कुम्भी च-वल्लीविशेषः, तदा बहुब्रीहौ "शेषाद्वा" [पा. सू. ५/४/१५४] इति को दुनिवारः, सादृश्यवृत्तेः संज्ञाप्रतिकृत्योः इति शुनः कः । तथा हे देव! विलोक्यतां- इह-प्रदेशे दवेन-दावाग्निना दग्धानि अरण्यानि मुनिमण्डलं च । किम्भूतानि दवदग्धारण्यानि ? सती-शोभना प्रभा-कान्तिस्तया वन्ध्या-रहितानि । किम्भूतं मुनिमण्डलम् ? सत्-प्रधानः प्रभावः-माहात्म्यं यस्य तत्, तथा ध्यानमस्यास्तीति ध्यानि ।
अथ नृपतिर्यदकार्षीत्तदाह
रमणीयतया स्निग्धतया च पुनः परिवर्तितमुखं विलोक्य विन्ध्यदक्षिणमेखलाशिखरश्रेणीपादपान् पुष्कराक्षमभाषत ।
'भद्र, दुस्त्यजाः खल्वमी विन्ध्यतटीतरवः ।
रमणीयतया-रम्यतया स्निग्धतया च-सच्छायतया च विन्ध्यस्य दक्षिणमेखलाशिखरश्रेणिषु ये पादपास्तान् प्रति पुनः पुनः-भूयो भूयः परिवर्तितं-पश्चान्मुखीकृतं मुखं येन
१. स्यात् अनू. । २. वनानि अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org