SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ ४८२ दमयन्ती-कथा-चम्पूः शबरद्वन्द्वानि रत्नाकरस्थलं च, इह सुमधुराणि फलानि कीचकवनं च, इहामोदितविश्वककुम्भि कुसुमानि सरित्तीरं च, इह सत्प्रभावन्ध्यानि दवदग्धारण्यानि मुनिमण्डलं च' इति विविधवनप्र देशान्दर्शयतः पुष्कराक्षस्य विचित्रवचनोक्तीर्भावयन् क्रमेणातिक्रम्य शिखरपरम्परां परैरसह्यः सह्या-चलमवततार । ___अनुरागिणोः-परस्परं स्नेहवतोर्दम्पत्योः-जायाभोंः क्रीडारसस्य-मन्मथकेल्यासक्तेविघातः कुतो न श्रेयान्-न श्रेष्ठस्तत् तस्मात् अयं गजेन्द्रो मुच्यताम् इत्यभिधाय-उक्त्वा करुणया हृतं हृदयं-चेतो यस्य सः हृष्टमनाः स्वैरं-स्वेच्छया रममाणानि यानि मृगमिथुनानिहरिणहरिणीरूपयुग्मानि तेषां ये विलासाः-चेष्टितानि तैः, उच्छ्वासिताः-उच्चैःकृता पुलका:-रोमाञ्चा यस्य सः, तथा कुसुमितानि-पुष्पितानि यानि काननानि तेषां ये अनिला:-वातास्तैरुत्कम्प्यमानः-दमयन्तीं प्रत्युत्कण्ठां प्राप्यमाणः । तथा झरन्तः-स्रवन्तो ये निर्झराः-स्रवास्तेषामुपान्ते-समीपे ये पादपाः-तरवस्तेषां तलेषु-अधोभागेषु चलतां केलिकिलानां-केकानुकारप्रवृत्तानां केकिनां कैकारवैविनोद्यमानः-कुतूहलं प्राप्यमाणः । केलये किलति-क्रीडतीति केलिकिलः "नाम्युपधात्के"१ [ ]क्रीडापात्रम् । यद्वा, किलतीति केलिकिल: "बहुलं गुणवृद्धी चादेः" [ ] इति धातोः किल् अः स्वरूपे च द्वे रूपे पूर्वस्य इ: यथादर्शनं च गुणवृद्धी । च-पुन: समीपचराः-निकटगामिनो ये सेवका:अनुचरास्तेषां सुभाषितैः-सूक्तैर्विनोद्यमानो नल ईदृशं विन्ध्यस्कन्धं उल्लंध्य-अतिक्रम्य इतिअमुना प्रकारेण विविधान् वनप्रदेशान्-काननोद्देशान् दर्शयतः, पुष्कराक्षस्य विचित्रा विविधारे वचनोक्ती:-वक्रोक्तीर्भावयन्-मनसि आकलयन् सन् क्रमेण गमनपरिपाट्या शिखरिपरम्परां-तदन्तरालवर्तिगिरिश्रेणिं अतिक्रम्य सह्याचलं अवततार-जगाम । किम्भूतो नलः ? परैः-शत्रुभिरसह्यः-प्रतापातिशयात् सोढुमशक्यः । किम्भूतं विन्ध्यस्कन्धम् ? सह मया-श्रिया वर्तत इति समस्तं-सश्रीकं, तथा असम-विषमं न समोऽस्येति कृत्वा उत्कृष्टं वा। तथा निम्नगा-नदीस्त्रायत इति के निम्नगात्रस्तं, तथा अनिम्न-उच्चगात्रं-मूत्तिर्यस्य स तम् । तथा ग्रावभिः-दृषद्भिविषमं-दुःसञ्चारं, तथा अग्रे-शिखरे अविषम-समम् । तथा सह श्वापदैः-हिंस्रपशभिर्वर्तत इति सश्वापदस्तं तथा, अश्वानां अपदं-अभूमिः, समनिर्जलो हि देशाऽश्वीयः, अयं च ग्रावविषमो निम्नगाधारश्च । तथा सह पादपैः-वृक्षैर्वति इति सपादपस्तं, तथा अपादान्गूढपदः पातीत्यपादपस्तं, शून्ये हि सर्पादिप्राचुर्यम् । अथवा अतिवैषम्यात् सञ्चरतां पादान् न पातीत्यपादपं । सर्वतः चशब्दो विरोधार्थः । स च तुल्यार्थे व्याख्येयः । तद्यथा- यः समो भवति स असमः कथं स्यात् ? तथा यो निम्नगात्र: स ★ 'नाम्युपान्त्यप्रीकृगृशः कः' इति सूत्रेण । १. विविधा नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy