________________
४८१
षष्ठ उच्छ्वासः ऽब्धेरुत्पन्नास्तथाऽयमपि । किम्भूत ऐरावतः ? जनितो जगति विस्मयः-आश्चर्यं येन सः । तस्य-ऐरावतस्य प्रसूति:-सन्तानः तत्प्रसूतिरियं अशेषवनानि अलङ्करोति । इमे ये करिणो दृश्यंते ते सर्वेपि ऐरावताज्जाता इति ।
तत् तस्मात् एष हस्ती भद्रजातिर्भविष्यति । तथाहि
उच्चैःकुम्भः कपिशदशनो बन्धुरस्कन्धसंधिः, स्निग्धाताम्रद्युतिनखमणिर्लम्बवृत्तोरुहस्तः । शूरः सप्तच्छदपरिमलस्पर्धिदानोदकोऽयं,
भद्रः सान्द्रद्रुमगिरिसरित्तीरचारी करीन्द्रः ॥ ६० ॥ तथाहीति । भद्रजातेर्लक्षणान्येवाह
उच्चैरिति । अयं प्रत्यक्षः करीन्द्रो भद्रः-भद्रजातीयः । किम्भूतः ? उच्चैः-उन्नतौ कुम्भौ-शिर:पिण्डौ यस्य सः, तथा कपिशौ-पिशङ्गौ दशनौ-दन्तौ यस्य सः । तथा बन्धुरः-मांसलः स्कन्धयोः सन्धिः-श्लेषो यस्य सः । तथा स्निग्धा-चकचकायमाना आताम्रा-ईषद्रक्ता द्युतिः-कान्तिर्येषामेवम्विधा नखमणयः-नख एव मणयो । यस्य सः । तथा लम्बः- प्रलम्बो वृत्तः-वर्तुलः उरु:-पृथुलो हस्तः-करो यस्य सः । तथा शूरःरणकर्मणि कुशलः । तथा सप्तच्छदस्य परिमलं-आमोदं स्पर्द्धते-संहृष्यतीत्येवंशीलं दानोदकं-मदजलं यस्य सः । तथा सान्द्राः-निबिडाः द्रुमा यत्र एवम्विधं यत् गिरिसरित्तीरं-शैलशैवलिनीतटं तस्मिन् चरति-विहरतीत्येवंशीलम् ॥ ६० ॥
तन्मुच्यतामयम्', अनुरागिणोर्दम्पत्योः क्रीडारसविघातः कृतो न श्रेयान् इत्यभिधाय, हृतहृदयः२, स्वैरं रममाणमृगमिथुन विलासैरुच्छसितपुलकः कुसुमितकाननानिलैरुत्कम्प्यमानः, झरन्निर्झरोपान्तपादपतलचलत्केलिकिलकेकिकेकारवैर्विनोद्यमानः समीपचरसेवक"सुभाषितैश्च, सममसमं च, निम्नगात्रमनिम्नगात्रं च ग्रावविषममग्रावविषमं च, सश्वापदमश्वापदं च, सपादपमपादपं च, विन्ध्यस्कन्धमुल्लङ्घय, 'देव, विलोक्यतामिह विषमविषाणि पन्नगकुलानि द्रोणीगहनं च, इह शरासनकरम्बाणि वनानि पापद्धिपरं पुलिन्दवृन्दं च, इह बहुसुखानि *-* चिह्नान्तर्गतपाठो नास्ति अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org