Book Title: Damyanti Katha Champu
Author(s): Vinaysagar
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 655
________________ ५१० दमयन्ती-कथा-चम्पू: परिवर्तमानं लोहवलयं येषां ते तैः, राजपुत्रा हि प्रकोष्ठे मणिकूर्परान्तरे दाढाय लोहमयवलयानि धारयन्ति । तथा ऊर्ध्वं बद्ध उद्भट:-उत्कृष्टो जूटक:-केशबन्धविशेषो यैस्ते तैः । तथा अलका:-कुटिलाः कराला:-सटालत्वात् रौद्रा मौलयः-संयताः केशा येषां ते तैः । तथा अर्द्ध ऊरुः प्रमाणमस्य तदोरुकं येन वाससा कटीप्रभृति अर्दोरुपर्यन्तं छाद्यते तत्परिधानं-वासो येषां ते तैः । तथा निशिताः-तीक्ष्णाः कुन्ताः पाणिषु येषां ते तैः । पुनः किम्भूतः ? वांशिकेन वैणविकेन वाद्यमानो यो वंशः-वेणुस्तस्य निस्वने-ध्वनौ दत्तौ कर्णो येन सः । वंशवादनमस्यास्तीति वांशिकः । किम्भूते वंशनिस्वने ? मनाक्-स्तोकं मृदुःअकठोरो यो मृदङ्गध्वनिस्तेन करम्बिते-मिश्रिते, तथा कोमलेन मृदुस्वनेन कांस्यतालेन शालते-शोभत इत्येवंशीलस्तस्मिन् । पुनः किम्भूतः ? कर्णिकारः-द्रुमोत्पलस्तद्वद् गौरंपीतं अङ्ग-शरीरं यस्य सः । ततश्च चामरग्राहिणीहस्तपल्लवमवलम्ब्यमानः सहेलमुत्थाय प्रथममुत्थितेन संभ्रमवशवल्गितवक्षःस्थलावलम्बित'कुसुमदाम्ना विसर्पि२कर्पूरकुङ कुममिलन्मृगमदामोदेन त्वरितसंपातपतत्पटवासपांसुना सामन्त-चक्रेण परिकरितः कतिपयपदानि निषधेश्वरस्तदभिमुखमगात् । ततश्चेति । ततः-भीमस्याङ्गणप्राप्त्यवगमानन्तरं निषधेश्वरः-नलः चामरग्राहिण्या हस्तपल्लवमवलम्ब्यमान:-आश्रयन् सन् सहेलं-सविलासं उत्थाय स्वस्मात् प्रथम-पूर्वं उत्थितेन सामन्तचक्रेण-मण्डलेश्वरवृन्देन परिकरितः-परिवारितस्तस्य-भीमस्य अभिमुखंसम्मुखं कतिपयपदानि अगात्-ययौ । किम्भूतेन सामन्तचक्रेण ? सम्भ्रमवशेन-आदरवशेन वल्गितं-चलितं वक्षःस्थले अवलम्बितं-लम्बायमानीकृतं कुसुमदाम-पुष्पमाला यस्य तत्तेन । तथा कर्पूरं-घनसारः कुङ्कुमं च-घुसृणं ताभ्यां मिलन्-संयुज्यमानो यो मृगमदः-कस्तूरिका तस्य यः आमोदः-परिमलः कर्पूरकुङ्कुममिलन्मृगमदामोदः विसी-दिशि दिशि प्रसरणशीलः कर्पूरकुङ्कुममिलन्मृगमदामोदो यस्य तत्तेन । तथा त्वरितं? सम्पातेनशीघ्रगमनेन पतन् पटवास:-वासः सुरभीकरण द्वव्यं तस्य पांसु-धूलियस्य तत्तेन । सोऽपि सत्वरोपसृतस्य ताम्बूलप्रसेविकावाहिनः पुरुषस्य स्कन्धमवष्टभ्य दूरादेव तुरंग पृष्ठादवातरत् । एवमन्योन्यनयनसंपातस्मिताननौ समकालमीषन्नमितमौलिमण्डलौ समसमयप्रसारितभुजौ सरभसमाश्लेषवशविशीर्यमाणहारावलीगलन्मुक्ता १. त्वरित० अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776