________________
५१०
दमयन्ती-कथा-चम्पू: परिवर्तमानं लोहवलयं येषां ते तैः, राजपुत्रा हि प्रकोष्ठे मणिकूर्परान्तरे दाढाय लोहमयवलयानि धारयन्ति । तथा ऊर्ध्वं बद्ध उद्भट:-उत्कृष्टो जूटक:-केशबन्धविशेषो यैस्ते तैः । तथा अलका:-कुटिलाः कराला:-सटालत्वात् रौद्रा मौलयः-संयताः केशा येषां ते तैः । तथा अर्द्ध ऊरुः प्रमाणमस्य तदोरुकं येन वाससा कटीप्रभृति अर्दोरुपर्यन्तं छाद्यते तत्परिधानं-वासो येषां ते तैः । तथा निशिताः-तीक्ष्णाः कुन्ताः पाणिषु येषां ते तैः । पुनः किम्भूतः ? वांशिकेन वैणविकेन वाद्यमानो यो वंशः-वेणुस्तस्य निस्वने-ध्वनौ दत्तौ कर्णो येन सः । वंशवादनमस्यास्तीति वांशिकः । किम्भूते वंशनिस्वने ? मनाक्-स्तोकं मृदुःअकठोरो यो मृदङ्गध्वनिस्तेन करम्बिते-मिश्रिते, तथा कोमलेन मृदुस्वनेन कांस्यतालेन शालते-शोभत इत्येवंशीलस्तस्मिन् । पुनः किम्भूतः ? कर्णिकारः-द्रुमोत्पलस्तद्वद् गौरंपीतं अङ्ग-शरीरं यस्य सः ।
ततश्च चामरग्राहिणीहस्तपल्लवमवलम्ब्यमानः सहेलमुत्थाय प्रथममुत्थितेन संभ्रमवशवल्गितवक्षःस्थलावलम्बित'कुसुमदाम्ना विसर्पि२कर्पूरकुङ कुममिलन्मृगमदामोदेन त्वरितसंपातपतत्पटवासपांसुना सामन्त-चक्रेण परिकरितः कतिपयपदानि निषधेश्वरस्तदभिमुखमगात् ।
ततश्चेति । ततः-भीमस्याङ्गणप्राप्त्यवगमानन्तरं निषधेश्वरः-नलः चामरग्राहिण्या हस्तपल्लवमवलम्ब्यमान:-आश्रयन् सन् सहेलं-सविलासं उत्थाय स्वस्मात् प्रथम-पूर्वं उत्थितेन सामन्तचक्रेण-मण्डलेश्वरवृन्देन परिकरितः-परिवारितस्तस्य-भीमस्य अभिमुखंसम्मुखं कतिपयपदानि अगात्-ययौ । किम्भूतेन सामन्तचक्रेण ? सम्भ्रमवशेन-आदरवशेन वल्गितं-चलितं वक्षःस्थले अवलम्बितं-लम्बायमानीकृतं कुसुमदाम-पुष्पमाला यस्य तत्तेन । तथा कर्पूरं-घनसारः कुङ्कुमं च-घुसृणं ताभ्यां मिलन्-संयुज्यमानो यो मृगमदः-कस्तूरिका तस्य यः आमोदः-परिमलः कर्पूरकुङ्कुममिलन्मृगमदामोदः विसी-दिशि दिशि प्रसरणशीलः कर्पूरकुङ्कुममिलन्मृगमदामोदो यस्य तत्तेन । तथा त्वरितं? सम्पातेनशीघ्रगमनेन पतन् पटवास:-वासः सुरभीकरण द्वव्यं तस्य पांसु-धूलियस्य तत्तेन ।
सोऽपि सत्वरोपसृतस्य ताम्बूलप्रसेविकावाहिनः पुरुषस्य स्कन्धमवष्टभ्य दूरादेव तुरंग पृष्ठादवातरत् ।
एवमन्योन्यनयनसंपातस्मिताननौ समकालमीषन्नमितमौलिमण्डलौ समसमयप्रसारितभुजौ सरभसमाश्लेषवशविशीर्यमाणहारावलीगलन्मुक्ता
१. त्वरित० अनू. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org