Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
तहेव जाव कहिं उववजिहिंति ?, गोयमा ! ओसन्नं नरगतिरिक्खजोणिएसु उववजिहिति, ते णं भंते ! ढंका कंकाविलका मदुगा सिही निस्सीला तहेव जाव ओसन्नं नरगतिरिक्खजोणिएसु उववजिहिति । सेवं भंते ! सेवं भंते ! त्ति (सूत्रं २८८)॥ सत्तमस्स छट्ठो उद्देसओ॥ ७-६॥
'दुरूव'त्ति दुःस्वभावा 'अणाएजवयणपञ्चायाय'त्ति अनादेयवचनप्रत्याजाते येषां ते तथा, प्रत्याजातं तु जन्म, 'कूडे'त्यादौ कूट-भ्रान्तिजनकद्रव्यं कपट-वञ्चनाय वेषान्तरादिकरणं 'गुरुनिओगविणयरहिया य'त्ति गुरुषु-मात्रादिषु नियोगेन-अवश्यतया यो विनयस्तेन रहिता येते तथा, चः समुच्चये 'विकलरूव'त्ति असम्पूर्णरूपाः 'खरफरुसज्झामवण्ण'त्ति खरपरुषाः स्पर्शतोऽतीवकठोराः ध्यामवर्णा-अनुज्वलवर्णास्ततः कर्मधारयः 'फुट्टसिर'त्ति विकीर्ण | शिरोजा इत्यर्थः 'कविलपलियकेस'त्ति कपिलाः पलिताश्च-शुक्लाः केशा येषां ते तथा 'बहुण्हारुसंपिणद्ध| उद्दसणिजरूव'त्ति बहुस्नायुभिः संपिनद्धं-बद्धमत एव दुःखेन दर्शनीयं रूपं येषां ते तथा 'संकुडियवलीतरंगपरिवे| ढियंगमंगा' सङ्कटितं वलीलक्षणतरङ्गैः परिवेष्टितं चाङ्गं येषां ते तथा, क इव ? इत्यत आह-'जरापरिणयच थेरय
णर'त्ति जरापरिगतस्थविरनरा इवेत्यर्थः, स्थविराश्चान्यथाऽपि व्यपदिश्यन्त इति जरापरिणतग्रहणं, तथा 'पविरलपरि|सडियदंतसेढी' प्रविरला दन्तविरल त्वेन परिशटिता च दन्तानां केषाञ्चित्पतितत्वेन भग्नत्वेन वा दन्तश्रेणिर्येषां ते तथा 'उन्भडघडमुह'त्ति उद्भट-विकरालं घटकमुखमिव मुखं तुच्छदशनच्छदत्वाद्येषां ते तथा 'उभडघाडामुह'त्ति कचित्तत्र उद्भटे-स्पष्टे घाटामुखे-शिरोदेशविषयौ येषां ते तथा 'वंकवलीविगयभेसणमुह'त्ति वत-वक्रं पाठान्तरेण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656