Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
चेटकेनाप्यष्टादश गणराजा मिलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिपरिमाणं, ततो युद्धं संप्रलग्नं, चेटकराजश्च प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुश्चति, अमोघबाणश्च सः, तत्र च कूणिकसैन्ये गरुडव्यूहः, [ग्रन्थाग्रं ७०००] चेटकसैन्ये च सागरव्यूहो विरचितः, ततश्च कूणिकस्य कालो दण्डनायको युद्ध्यमानस्तावद्गतो यावच्चेटकः, ततस्तेनैकशरनिपातेनासौ निपातितो, भग्नं च कूणिकवलं, गते च द्वे अपि बले निजं निजमावासस्थानम्, एवं च दशसु दिवसेषु चेटकेन विनाशिता दशापि कालादयः, एकादशे तु दिवसे चेटकजयार्थ देवताराधनाय कूणिकोऽष्टमभक्तं प्रजग्राह, ततः शक्रचमरावागतो, ततः शक्रो बभाण-चेटकः श्रावक इत्यहं न तं प्रति प्रहरामि नवरं भवन्तं संरक्षामि, ततोऽसौ तद्रक्षार्थ वज्रप्रतिरूपकमभेद्यकवचं कृतवान् , चमरस्तु द्वौ सङ्ग्रामौ विकुर्वितवान्-महाशिलाकण्टकं रथमुशलं चेति ।। 'जइत्य'त्ति जितवान् 'पराजइत्थ'त्ति पराजितवान् हारितवानित्यर्थः 'वन्जित्ति वजी' इन्द्रः 'विदेहपुत्तेत्ति कोणिका, एतावेव तत्र जेतारौ नान्यः कश्चिदिति 'नव मल्लईत्ति मल्लकिनामानो राजविशेषाः 'नव लेच्छइ'त्ति लेच्छकिनामानो राजविशेषा एव 'कासीकोसलग'त्ति काशी-वाणारसी तजनपदोऽपि काशी तत्सम्बन्धिन आद्या नव कोशला-अयोध्या तज्जनपदोऽपि कोशला तत्सम्बन्धिनो नव द्वितीयाः, 'गणरायाणो'त्ति समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणप्रधाना राजानो गणराजाः सामन्ता इत्यर्थः, ते च तदानी चेटकराजस्य वैशालीनगरीनायकस्य साहाय्याय गणं कृतवन्त इति ॥ अथ महाशिलाकण्टके सङ्ग्रामे चमरेण विकुर्विते सति कुणिको यदकरोत्तद्दर्शनार्थमिदमाह-तए ण'मित्यादि, ततो' महाशिलाकण्टकसङ्ग्रामविकुर्वणानन्तरमुदायिनामानं 'हत्थिराय'ति हस्तिप्रधानं 'पडिकप्पेह'त्ति सन्नद्धं कुरुत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656