Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 647
________________ वैते शब्दाः कोपप्रकर्षप्रतिपादनार्थमुक्ताः 'ठाणं'ति पादन्यासविशेषलक्षणं 'ठाति'त्ति करोति 'आययकण्णाययंति आयतः-आकृष्टः सामान्येन स एव कर्णायतः-आकर्णमाकृष्ट आयतकर्णायतस्तम् ,'एगाहचंति एका हत्या-हननं प्रहारो | यत्र जीवितव्यपरोपणे तदेकाहत्यं तद्यथा भवति, 'कूडाहचंति कूटे इव तथाविधपाषाणसंपुटादौ कालविलम्बाभावसाधादाहत्या-आहननं यत्र तत् कूटाहत्यम् अत्थामेति अस्थामा सामान्यतः शक्तिविकलः 'अबले'त्ति शरीरशक्तिवर्जितः 'अवीरिए'त्ति मानसशक्तिवर्जितः 'अपुरिसक्कारपरक्कमेत्ति व्यक्तं नवरं पुरुषक्रिया पुरुषकारः-पुरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमः 'अधारणिज्जति आत्मनो धरणं कर्तृमशक्यम् 'इतिकट्टत्ति इतिकृत्वा इतिहेतोरित्यर्थः 'तुरए णिगिण्हइत्ति अश्वान् गच्छतो निरुणद्धीत्यर्थः 'एगंतमंतंति “एकान्तं' विजनम् 'अन्तं' भूमिभागं 'सीलाई ति फलानपेक्षाः प्रवृत्तयः ताश्च प्रक्रमाच्छुभाः 'वयाईति अहिंसादीनि 'गुणाईति गुणव्रतानि 'वेरमणाईति सामान्येन रागादिविरतयः 'पचक्खाणपोसहोववासाईति प्रत्याख्यानं-पौरुष्यादिविषयं पौषधोपवासः-पर्वदिनोपहै वासः 'गीयगंधवनिनाए'त्ति गीतं गानमात्रं गन्धर्व-तदेव मुरजादिध्वनिसनाथं तल्लक्षणो निनादः-शब्दो गीतगन्धर्व निनादः॥'कालमासे'त्ति मरणमासे मासस्योपलक्षणत्वात् कालदिवसे इत्याद्यपि द्रष्टव्यं 'कहिं गए कहिं उववन्नेत्ति ४ प्रश्नद्वये 'सोहम्मे'त्याद्येकमेवोत्तरं गमनपूर्वकत्वादुत्पादस्योत्पादाभिधानेन गमनं सामर्थ्यादवगतमेवेत्यभिप्रायादिति । 'आउक्खएणं आयुःकर्मदलिकनिर्जरणेन 'भवक्खएणं'ति देवभवनिवन्धनदेवगत्यादिकर्मनिर्जरणेन 'ठिइक्खएणं'ति || आयुष्कादिकर्मणां स्थितिनिर्जरणेनेति ॥ सप्तमशते नवमोद्देशकः सम्पूर्णः ॥ ७-९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 645 646 647 648 649 650 651 652 653 654 655 656