Book Title: Bhagwati sutram Part 01
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 651
________________ यह 'अरूविकास्तकायो जडतया AWAR एवम्' अकूल्येन त्ति इयं कथा-एषात अविद्वत्प्रकृताः [अविवमस्तिभावमेवास्तीति / थिकाय'मित्येतस्य स्वरूपविशेषणायाह-'अरूविकार्य'ति अमूर्त्तमित्यर्थः 'जीवकार्य'ति जीवनं जीवो-ज्ञानाद्युपयोगस्तत्प्रधानः कायो जीवकायोऽतस्तं, कैश्चिज्जीवास्तिकायो जडतयाऽभ्युपगम्यतेऽतस्तन्मतव्युदासायेदमुक्तमिति, 'से कहमेयं मन्ने एवं ? ति अथ कथमेतदस्तिकायवस्तु मन्य इति वितर्कार्थः 'एवम्' अमुना चेतनादिविभागेन भवतीति, एषां समुल्लापः, 'इमा कहा अविपकड'त्ति इयं कथा-एषाऽस्तिकायवक्तव्यताऽप्यानुकूल्येन प्रकृता-प्रक्रान्ता, अथवा न विशेषेण प्रकटा अविप्रकटा, 'अविउप्पकड'त्ति पाठान्तरं तत्र अविद्वत्प्रकृताः-[अविज्ञप्रकृता] अथवा न विशेषत उत्-प्राबल्यतश्च प्रकटा अव्युत्प्रकटा 'अयं च'त्ति अयं पुनः 'तंचेयसा' इति यस्माद्वयं सर्वमस्तिभावमेवास्तीति वदामः तथाविधसंवाददर्शनेन भवतामपि प्रसिद्धमिदं तत्-तस्मात् 'चेतसा' मनसा 'वेदसत्ति पाठान्तरे ज्ञानेन प्रमाणाबाधितत्वलक्षणेन 'एयम8'ति अमुमस्तिकायस्वरूपलक्षणमर्थ स्वयमेव 'प्रत्युपेक्षध्वं' पर्यालोचयतेति, 'महाकहापडिवन्ने'त्ति महाकथाप्रबन्धेन महाजनस्य तत्त्वदेशनेन, 'एयंसिणं ति एतस्मिन् उक्तस्वरूपे 'चकिया केह'त्ति शक्नुयात् कश्चित् ॥ । 'एयंसिणं भंते ! पोग्गलत्थिकायंसि'इत्यादि, अयमस्य भावार्थ:-जीवसम्बन्धीनि पापकर्माण्यऽशुभस्वरूपफललक्षणविपाकदायीनि पुद्गलास्तिकाये न भवन्ति, अचेतनत्वेनानुभववर्जितत्वात्तस्य, जीवास्तिकाय एव च तानि तथा 8 भवन्ति अनुभवयुक्तत्वात्तस्येति । प्राक्कालोदायिप्रश्नद्वारेण कर्मवक्तव्यतोक्का, अधुना तु तत्प्रश्नद्वारेणैव तान्येव यथा पापफलविपाकादीनि भवन्ति तथोपदिदर्शयिषुः 'एत्थ णं से' इत्यादि संविधानकशेषभणनपूर्वकमिदमाह तए णं समणे भगवं महावीरे अन्नया कयाइरायगिहाओगुणसिलए(या) चेइए(या)पडिनिक्खमति बहिया *SHAINERY Jan Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 649 650 651 652 653 654 655 656