SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ चेटकेनाप्यष्टादश गणराजा मिलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिपरिमाणं, ततो युद्धं संप्रलग्नं, चेटकराजश्च प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुश्चति, अमोघबाणश्च सः, तत्र च कूणिकसैन्ये गरुडव्यूहः, [ग्रन्थाग्रं ७०००] चेटकसैन्ये च सागरव्यूहो विरचितः, ततश्च कूणिकस्य कालो दण्डनायको युद्ध्यमानस्तावद्गतो यावच्चेटकः, ततस्तेनैकशरनिपातेनासौ निपातितो, भग्नं च कूणिकवलं, गते च द्वे अपि बले निजं निजमावासस्थानम्, एवं च दशसु दिवसेषु चेटकेन विनाशिता दशापि कालादयः, एकादशे तु दिवसे चेटकजयार्थ देवताराधनाय कूणिकोऽष्टमभक्तं प्रजग्राह, ततः शक्रचमरावागतो, ततः शक्रो बभाण-चेटकः श्रावक इत्यहं न तं प्रति प्रहरामि नवरं भवन्तं संरक्षामि, ततोऽसौ तद्रक्षार्थ वज्रप्रतिरूपकमभेद्यकवचं कृतवान् , चमरस्तु द्वौ सङ्ग्रामौ विकुर्वितवान्-महाशिलाकण्टकं रथमुशलं चेति ।। 'जइत्य'त्ति जितवान् 'पराजइत्थ'त्ति पराजितवान् हारितवानित्यर्थः 'वन्जित्ति वजी' इन्द्रः 'विदेहपुत्तेत्ति कोणिका, एतावेव तत्र जेतारौ नान्यः कश्चिदिति 'नव मल्लईत्ति मल्लकिनामानो राजविशेषाः 'नव लेच्छइ'त्ति लेच्छकिनामानो राजविशेषा एव 'कासीकोसलग'त्ति काशी-वाणारसी तजनपदोऽपि काशी तत्सम्बन्धिन आद्या नव कोशला-अयोध्या तज्जनपदोऽपि कोशला तत्सम्बन्धिनो नव द्वितीयाः, 'गणरायाणो'त्ति समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणप्रधाना राजानो गणराजाः सामन्ता इत्यर्थः, ते च तदानी चेटकराजस्य वैशालीनगरीनायकस्य साहाय्याय गणं कृतवन्त इति ॥ अथ महाशिलाकण्टके सङ्ग्रामे चमरेण विकुर्विते सति कुणिको यदकरोत्तद्दर्शनार्थमिदमाह-तए ण'मित्यादि, ततो' महाशिलाकण्टकसङ्ग्रामविकुर्वणानन्तरमुदायिनामानं 'हत्थिराय'ति हस्तिप्रधानं 'पडिकप्पेह'त्ति सन्नद्धं कुरुत Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600224
Book TitleBhagwati sutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages656
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy