________________
व्याख्याप्रज्ञप्तिः अभयदेवीया वृत्तिः १
॥३१६ ॥
सयसाहस्सीओ वहियाओ । ते णं भंते! मणुया निस्सीला जाव निष्पचक्खाणपोसहोववासा रुट्ठा परि | कुविया समरवहिया अणुवसंता कालमासे कालं किच्चा कहिं गया कहिं उववन्ना ?, गोयमा ! ओसन्नं नरगतिरिक्खजोणिएसु उववन्ना (सूत्रं ३०० ) ॥
'णायमेय' मित्यादि, ज्ञातं सामान्यतः 'एतत्' वक्ष्यमाणं वस्तु 'अर्हता' भगवता महावीरेण सर्वज्ञत्वात्, तथा 'सुर्य'ति स्मृतमिव स्मृतं स्पष्टप्रतिभासभावात् विज्ञातं विशेषतः, किं तत् १ इत्याह- 'महासिलाकंटए संगामेति महा| शिलैव कण्टको जीवितभेदकत्वात् महाशिलाकण्टकस्ततश्च यत्र तृणशलाकादिनाऽप्यभिहतस्याश्वहस्त्यादेर्महाशिलाकण्ट| केनेवाभ्याहतस्य वेदना जायते स सङ्ग्रामो महाशिलाकण्टक एवोच्यते, द्विर्वचनं चोल्लेखस्यानुकरणे, एवं च किलायं सङ्ग्रामः सञ्जातः - चम्पायां कूणिको राजा बभूव, तस्य चानुजौ हल्लविहल्लाभिधानौ भ्रातरौ सेचनकाभिधानग न्धहस्तिनि समारूढौ दिव्यकुण्डलदिव्यवसनदिव्यहारविभूषितौ विलसन्तौ दृष्ट्टा पद्मावत्यभिधाना कूणिकराजस्य भार्या मत्सराद्दन्तिनोऽपहाराय तं प्रेरितवती, तेन तौ तं याचितौ तौ च तद्भयाद्वैशाल्यां नगर्यां स्वकीय मातामहस्य | चेटकाभिधानस्य राज्ञोऽन्तिकं सहस्तिकौ सान्तःपुरपरिवारौ गतवन्तौ, कूणिकेन च दूतप्रेषणतो मार्गितौ न च तेन प्रेषितौ ततः कूणिकेन भाणितं यदि न प्रेषयसि भो ! तदा युद्धसज्जो भव, तेनापि भाणितम् - एष सज्जोऽस्मि, ततः कूणिकेन कालादयो दश स्वकीया भिन्नमातृका भ्रातरो राजानश्चेटकेन सह सङ्ग्रामायाहूताः, तत्रैकैकस्य त्रीणि २ हस्तिनां सहस्राणि, एवं रथानामश्वानां च, मनुष्याणां तु प्रत्येकं तिस्रः २ कोटयः, कूणिकस्याप्येवमेव, एनं च व्यतिकरं ज्ञात्वा
Jain Education International
For Personal & Private Use Only
७ शतके उद्देशः ९ महाशिला
कण्टकः
सू ३००
॥३१६॥
www.jainelibrary.org