Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 496
________________ १८स्वर्गारोहणपर्व-१सर्गः] बालभारतम् । स्वर्गारोहणपर्व । अथायमायतश्रीकं ससौदर्य सुयोधनम् । दिवि वीक्ष्योल्लसन्मन्युः शतमन्युमभाषत ॥ १ ॥ नमः स्वर्गाय यत्रायमनपायः प्रपूज्यते । महापीठस्थितः पापी जगत्तापी सुयोधनः ॥ २ ॥ किं कार्य निर्विचारेण स्वर्गाचारेण मेऽधुना । . सबन्धुवर्गसंसर्ग एव स्वर्गोऽस्तु गोचरः ॥ ३ ॥ अथो सगर्भानानन्दः संदर्भानस्य भूपतेः । दर्शयेत्यदिशन्देवा देवदूतं मनस्त्वरम् ॥ ४ ॥ यथा तत्प्रथितेनाथ पृथ्वीनाथः प्रपेदिवान् । दुर्गतिं दुर्गदुर्गन्धवधबन्धादिदुःखदाम् ॥ ५ ॥ प्रवध्यवध्यमानानां बन्धूनां विविधैर्वधैः । स तैदाकर्णयत्कर्णकटुमातिरं स्वरम् ॥ ६ ॥ भीमादयो वयमियं द्रौपदी च पृथुव्यथा । तत्पुण्यपवनेनैव स्वस्थाः स्मः स्थीयतां क्षणम् ॥ ७ ॥ इत्युक्त्या स्तम्भितः स्तम्भमन्त्रशक्त्येव भूपतिः । निन्दन्देवस्य दुर्वृत्तं देवदूतमभाषत ॥ ८ ॥ स्थितोऽहं बन्धुसङ्गेन नरकोऽप्येष नाकति । वैसरिण्येव गङ्गेह दुःखान्येव सुखानि मे ॥ ९॥ खस्ति ते गच्छ नाकिभ्यो नाकाय च नमो नमः । दुर्वृत्ता यत्र पूज्यन्ते त्यज्यन्ते शीलशालिनः ॥ १० ॥ इत्युक्तेऽस्मिन्गते दूते पुरुहूतं पुरःस्थितम् । अपश्यद्भूपतिः किंतु न किंचिन्नरकादिकम् ॥ ११ ॥ १. 'शद्देवो' ग. २. 'मनश्वरम्' ख-ग. ३. 'पथा' क. ४. 'तत्रा' ख-ग. ५. 'इत्युक्त्या ' ख-ग. Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522