Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
४८८
काव्यमाला।
सूरिभूरिभिरेत्य तत्पुरवरैः संमान्य मान्यः सतां
प्रीतिश्रीरसभावितैर्निजसभावौ बभाषे द्विजैः ॥.२० ॥ गौरेका पतिता कथंचन मृता श्रीब्रह्मशालान्तरे __ न म्लेच्छाः प्रविशन्ति तत्र न मृतं कर्षन्ति विप्राः पशुम् । धर्माधार कृपाधुरीण तरसा तस्मान्महाकश्मला
दमादन्यपुरप्रवेशकलयैवोत्कर्षतः कर्ष तत् ॥ २१ ॥ मन्त्राकृष्टविशिष्टचेटकचयत्रीताप देहं त्यज
न्स्वामी सोऽन्यपुरप्रवेशकमथ ध्यानं दधौ शुद्धधीः । सा गौरुच्छ्रसिता ततो जिनमतस्यापि प्रेदश्र्योन्नति
तस्माद्ब्रह्मगृहाबहिनिरगमद्दुःखं द्विजानां हृदः ॥ २२ ॥ स्वस्थानस्थापितात्मा तदनु मुनिरसावुत्सवे न द्विजेन्द्र
रानिन्ये ब्रह्मशालामथ च पृथुमदैर्वायटादित्यदेवम् । हैमं यज्ञोपवीतं तदिह सह महास्थानवेंन्देन दत्त्वा
जैनोऽपि ब्रह्ममुख्यस्त्वमसि शमनिधेऽस्माकमेवं जगे च ॥२३॥ जलद इव तडित्वान्मेरुशृङ्गाप्तसेतु
जलधिरिव करीवाबद्धकल्याणकक्षः । ध्वनिभरमृतदिको लब्धनिष्कोपवीत
स्तदनु मुनिरकार्षीद्धर्मकर्मोपदेशम् ॥ २४ ॥ पदपदमुदगायन्गायनस्तोमनृत्य
न्नटपटलकजल्पद्वन्दिवृन्दोद्भवेन । मुदितजनमुदश्रु स्निग्धसान्द्रेण सूरिः
स्वमतमथ पथागाजग्मुरन्येऽप्यथौकः ॥ २५ ॥ यतीन्द्रस्तस्याथोल्लसदसमशक्तेः परपुर
प्रवेशावेशधिः परमतमनुत्कर्षमगमत् । अमुक्तस्वाङ्गोऽपि श्वसनसुभगस्यापि यदसा
वनेकस्याप्येकः समसमयमेवान्तरविशत् ॥ २६ ॥ १. 'त्रातागयष्टियतिः' ख. २. 'प्रभावप्रभा सा श्रीब्र ख. ३. 'वण्टेन' ग. ४. 'कल्पान' ग. ५. 'द्भटेन' ग.
Aho! Shrutgyanam

Page Navigation
1 ... 517 518 519 520 521 522