Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 506
________________ आस्तीक पर्व - १ सर्गः ] ४७९ बालभारतम् । तक्षकेण शरण्यस्त्वत्पितामहपितामहः । चक्रे शक्रः स किं मान्यः कृप्यः सोऽपि सहैव किम् ॥ ९१ ॥ तक्षकं रक्षकोपेतं कोपेन मनसो रसात् । द्रुतं जुहुत यज्ञाग्नौ तानित्यूचे तदा नृपः ॥ ९२ ॥ अथावेशोच्छु सद्दृष्टिभीमभ्रकुटयो द्विजाः । सेन्द्राय तक्षकायेति मन्त्रपूर्वी जगुर्गिरम् ॥ ९३ ॥ कोशन्तीष्वथ कोटीषु त्रयस्त्रिंशतिनाकिनाम् । मन्त्रशक्त्या खमानीतो नाकिनाथः स तक्षकः ॥ ९४ ॥ तौ वीक्ष्य खाण्डवप्लौषरक्षकौ शक्रतक्षकौ । होमाय कृष्टौ व्योमा जिह्वा व्यावल्गयच्छिखी ॥ ९९ ॥ दिक्पालमयभूपाल छुपालोंऽशस्तवाष्टमः । हुतेऽस्मिन्पौरुषं ते किमित्यरोदीत्तदा शची ॥ ९६ ॥ स्वर्गस्वाम्ये तवेच्छा चेत्तदिन्द्रोऽस्तु त्वदाज्ञया । जनमेजय मुञ्चामुमित्यूचुः सर्वतः सुराः ॥ ९७ ॥ इति लोके साक्रन्दे संक्रन्दनकरग्रहात् । सावेशविप्रहुंकारैर्व्यच्छुटमा तक्षकः ॥ ९८ ॥ यावत्पतति होमानौ स नागो मा पतेति तम् । व्योम्नि व्यालम्बयंस्तावदित्यास्तीकः स्तुवन्नृपम् ॥ ९९ ॥ स्वस्ति ते पाण्डुवंश्याय यत्कीर्तेर्मुखबिम्बवत् । इन्दुर्मरकतादर्शनिभे नभसि भासते ॥ १०० ॥ आस्ते यावदखर्वपर्वतघटा गुर्वीयमुर्वी भृशं तावन्नन्दतु भूमुकुन्द जगतीपुण्यैरगण्यैर्भवान् । येनैतां भुजगाधिपस्तव भुजे विन्यस्य नागाङ्गनागोष्ठीगीतभवद्यशः श्रुतिरसादाचान्तचिन्तोऽभवम् ॥ १०१ ॥ स्वान्वत्सान्पितृदेवमानव ऋषीन्यावद्धुनोति स्वधा - स्वाहा हन्तवषट्कृतिस्तन चतुष्केन त्रयीधेनुकाः । Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522