Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
कविप्रशस्तिः ]
बालभारतम् ।
कविप्रशस्तिः ।
किंचित्संचलितेऽपि वस्तुनि भृशं यत्संभवान्मन्महे विश्वं यन्मयमीश्वरादिमयतास्पष्टप्रमाणेप्सितम् ।
४८५
संसारप्रसरः परस्तनुमतां यस्यानुरोधेषु य
त्संरोधेषु शिवं स यच्छतु सतां श्रीचारुतां मारुतः ॥ १ ॥ देशे सत्तीर्थसार्थ दुरुदुरिते श्रीहनूमत्तनूजो
त्पत्तौ तेन प्रतेने जगदिव महास्थानमस्थानमाधेः । स्वाख्याङ्कज्ञातिनाम्ना मरकतमणिका मिश्रमुक्ताफलस्रभूषावद्भूमृगाया द्विजपटलमिहास्थापि साकं वणिग्भिः ॥ २ ॥ श्रीमद्वायनाम्नि सारसुकृतश्रीधानि तस्मिन्महा
स्थाने मानिनि दानमानसरसास्ते वायटीया द्विजाः । स्तोमस्तोमसमुत्थधूमनि वर्मालिन्यमालम्बया - मासुर्थी वणिजो जिनार्चनघनोपधूमोत्करैः ॥ ३ ॥ ध्वजमिषभुजमूलस्थूलकुम्भैकवक्षो
रुहमहह महीयोधः कृतस्फाटिकाद्रि । विलसति वणिजां सत्कीर्तिधमर्धिनारी
श्वरवपुरिव तत्र श्रीमहावीरचैत्यम् ॥ ४ ॥ श्रीश्वेताम्बर मौलिमौक्तिकमणिस्तस्मिञ्जिनेन्द्रालयेऽधिष्ठाता जिनदत्तसूरिरजनि ज्ञानैकवैज्ञानिकः ।
श्रेयस्तुङ्गयदङ्गसंगमसमुद्भूतप्रभूतस्फुर
त्पुण्यैः पश्य गुणैर्गतं दिवि सितच्छायैरुडुच्छद्मना ॥ ५ ॥ तत्पट्टोर्वीघरवरमणिद्योंमणिद्योत्तजैत्रै
स्तेजः पुत्रैः किमपि ककुभोऽपूरि रासिलसूरिः । यस्य व्योमच्छलकलशभृत्कीर्तिधारापयोभिगोभिर्भुक्ता घनजनमनः कानने मोहवलयः ॥ ६ ॥
Aho ! Shrutgyanam

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522