Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला ।
दृग्लीलादग्धदाह्यप्रचय रचयति त्वत्प्रशंसां न शर्वः __ सर्वज्ञोऽपि स्वयं तु स्तुतिकृतिषु कृतिन्कस्य न स्यात्रयोमिः॥१६०॥ इत्येष स्वस्तिपूर्वस्तवननवसुधावृष्टिमान्हृष्टिमन्ने(?)
तत्र क्षत्रावतंसे कथय किमु ददे तुभ्यमित्युक्तिभाजि । आस्तीकस्तक्षकाहिप्रभृतिफणभृतां चक्रमुन्मोच्य चक्रे
तोषं शक्रोऽपि विश्वत्रयहृदयमदाद्वैतवैतण्डिकश्रीः ॥ १६१ ॥ श्रेयोधामनि मन्त्रदामनि भवन्नाम्नि श्रुतेऽस्मद्विषं
जन्तोन प्रभविष्यतीत्यहिकुलैः सोत्कर्षहर्षाकुलैः । दत्तोदारवरस्तदैव स जरत्कारोः कुमारोऽनिशं
कालाहेर्निजनामगर्भमवतु ग्रन्थं यशोऽङ्गं मम ॥ १६२ ॥ वीरेन्दोर्जनमेजयस्य पुरतस्तत्राहिसत्रान्तरे
वैशम्पायनतो निशम्य किल यां सूतः स उग्रश्रवाः । आख्यन्नैमिषकानने कुलपतेः श्रीशौनकस्य ऋतौ
सेयं लालयतु स्ववालमिव महन्थं कथा भारती ॥ १६३ ॥ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मतार्हस्थितेः
पादाजभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती । एतन्नन्दतु बालभारतमहाकाव्यं तदुल्लासितं वाग्देवीगृहकोविदेन्दुहृदयः श्रेयः सुधास्वस्तिकः ॥ १६४ ॥ श्रीआस्तीकप्रभावाख्ये सर्गेऽमुष्मिन्ननुष्टुभाम् ।
शतद्वयं समुद्दिष्टमष्टपञ्चाशदन्वितम् ॥ १६५ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रसूरिविरचिते बालभारतनानि महाकाव्ये वीरा . आदिपर्वसंबन्धी आस्तीकप्रभाववर्णनो नाम त्रिचत्वारिंशत्तमः सर्गः ।
१. 'तु त्वत्स्तुति' ग. २. 'आस्तीकायप्रभावाख्ये' ख.
Aho! Shrutgyanam

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522