Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला।
त्वद्विद्वेषिपुरे पुरा निवसति प्रासादवृन्दध्वज- . ___ च्छायां केलिकलापिभिः फणिगणभ्रान्त्या निहत्यार्दिताः । शून्यं संप्रति सर्वतो निजपतिप्रध्वंसवैराग्यतो निर्वैरा इव ते क्षिपन्ति न मुखं सर्पत्सु सर्पष्वपि ॥ १४५ ॥ शिखरिषु हृदभूतैर्भूमिनेतः प्रभूतै
स्त्वदहितयुवतीनां दृग्जलैः कजलाढ्यैः । अहह विरहखिन्नाः खेचराणां रमण्यः
प्रतिपदमनुयज्ञं प्रीतिलेखांल्लिखन्ति ॥ १४६ ॥ श्रुत्वा पार्थप्रपौत्रं किमपि तव नवं वर्णनि स्वर्णकर्णा- लंकारं कारयिष्ये किमियमिति वधूत्तसितालीदलालीम् । आदायादाय देशान्तरचरकवयोऽरण्यदेशेऽपि शत्रु
क्षत्रस्त्रीनेत्रबाप्पाञ्जनदरिषु लिखत्यद्भुतत्वत्प्रशस्तीः ॥ १४७ ॥ दिगन्तान्दिग्दन्तावलकटमिया तावकभुज
भ्रमान्मुक्त्वा जग्मुर्गिरिविवरमागैरहिपुरम् । अहीन्द्रं तद्रूपं नृपतिवर तत्रापि रिपवो
निरूप्यांशुत्रासादयुगतिमतिदीना विदधतु ॥ १४८ ॥ जम्भजित्करिकरो भवद्भुजः पन्नगेन्द्र इति सोदरास्त्रयः । संविभज्य जयिनो जगत्रयं भूमिपाल परिपालयन्त्यमी ॥ १४९ ॥ त्वद्भुजभ्रमकणः फणीन्द्रदिग्धस्तिहस्तपविदण्डमण्डनः । दैन्यतोऽब्धिजलदुर्गविष्टरे विष्टरश्रवसि याति विष्टपम् ॥ १५० ॥ स्पर्धा कुतो धास्यति भूभुजंग भुजंगराजः स भवद्भुजेन । यस्त्वत्क्षतारिव्रजपातभुग्नधाराभरेणापि बिभर्ति खेदम् ॥ १५१ ॥
रङ्गद्भुजंगकुलहोमबलप्रलीना
धारां धरां क इव धारयितुं क्षमः स्यात् । इत्थं जना निजगदुर्न विदुर्जडास्ते
राजन्भवद्भुजभुजंगकृतस्थिति ताम् ॥ १५२ ॥
Aho! Shrutgyanam

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522