Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 511
________________ काव्यमाला। मन्येऽब्धौ वडवानलं फणिपुरे कालाग्निरुद्रं दिवि व्यक्षाक्षिज्वलनं पयोधरपथे सौदामनीडम्बरम् । पूर्वस्यां दिशि शक्रशस्त्रमधुना कार्य किमत्रात्मभि र्भानुमन्त्रयतीति सोमकुलज त्वत्तेजसि स्फूर्जति ॥ १३१ ॥ तव प्रतापस्तपनस्तदन्तः पुमांस्त्वमेकोऽसि हिरण्यवर्णः । भवद्विषां सत्त्वजुषां महांसि त्वय्येव मज्जन्ति महीभुजंग ॥ १३२॥ निःशोभं भवभालभीमनयनं दम्भोलिकीलागल. ___ल्लीला लुम्पति दावपावकविभापूरः परक्रूरताम् । अर्कः कर्कशतां समुज्झति वहत्यौर्वो न गर्वोद्गमं श्रीसोमान्वय विश्ववल्गनकलामत्ते भवत्तेजसि ॥ १३३ ॥ व्योम्नि व्योममणिर्वने दवशिखिज्वालाकलापः पयो राशौ वाडवपावको जलधरस्तोमे तडिद्विभ्रमः । एते पौरववंशसंभव भवत्तेजोभिरस्तौजसो मन्ना दुर्यशसीव भान्ति विलसज्जम्बालनालप्रभे ॥ १३४ ॥ पतिः प्रतापदीपानां महीप तव दीप्यते । ब्रह्मणोऽपि तमखिन्यां भावी दीपोत्सवो यया ।। १३५॥ यत्र संचलति संचलत्पदः सुस्थिते भवति सुस्थितं जगत् । तद्भवं भुवि भवानवातरख्यातमेव मतमद्वयं विभो ॥ १३६ ।। देव त्वजैत्रयात्रा समयसमुदयत्तुङ्गमातङ्गशुण्डा___ दण्डाग्रप्रायजाग्रत्तुरगखुरभरैः सानुमन्तः समन्तात् । सातकं कम्पमानाः शकुनिकलकलैः प्रस्तरव्रातपातैः शङ्के निष्कासयन्ति खकुहरविहरत्प्रत्यनीकावनीपान् ॥१३७॥ शक्रः संक्रन्दनोऽभूदकलयदनलस्तापमापत्कृतान्तः काय क्रव्यादभर्ताजनि रजनिचरोऽम्बुप्रविष्टः प्रचेताः । १. 'सौदामिनी' ग. २. 'सर्वस्पां' ग. ३. 'गर्वोद्यमम्' ग. ४. 'विश्वलालचकला' ग. ५. 'ग्राय' ख. . Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522