Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
काव्यमाला।
सा कल्पः कल्पशाखी त्रिदिवभुवि मुधा मार्गणानां सुराणां ___ मिथ्यावित्तानि दत्ते यदभिनयनटीभूय भूयस्तराणि ॥११७॥ किं वर्ण्यः कलिगन्धसिन्धुरहरिभूवल्लभ त्वं कला
वल्लीनामवनी वनीयकवनीधारालधाराधरः । कल्पोर्वीरुहमूर्ध्नि मौक्तिकमयानूनप्रसूनच्छवि
च्छद्मानः पृथुमानदानजनिताः क्रीडन्ति यत्कीर्तयः ॥ ११८॥ विश्रामाय न कल्पवृक्षवनमप्यालोकते नोच्चकै
श्चिन्तारत्नधराधरेऽपि कषणक्रीडारसं काङ्घति। वृन्दो कामदुहां क वाञ्छतु समं धुयै धरायां भवा
नेको वीरवृषो वहत्यहरहर्दानस्य दीर्घा धुरम् ॥ ११९ ॥ अचैतन्याश्चिन्तामणिसुरगवीकल्पतरवः
पयोधेरुत्तस्थुर्यदि सति महादानिनि वलौ । तदेते भूनेतः कथमिव भवन्तं क्षितितले
भविष्यन्तं मत्वा प्रथममगमन्मेरुशिखरम् ॥ १२० ॥ दाता येन रसातलं व्रजति तदानं बलिदत्तवा
वास्तु वःसुरभीमणिक्षितिरुहां दाने गुणग्राहिता । मातुः प्रार्थनयापि विश्वजयिने कर्णोऽपि निर्भीतये
नाभीति जयिने ददौ कमिव तत्त्वां स्तौमि भूमिप्रभो ॥१२१॥ अर्हद्भक्तसुहृद्विभक्तिविभवश्रीवल्लिशालद्विष
क्षोणीपालकपालपाटनपटुप्रोद्दामवामध्रुवः । विद्वत्पुण्यपुरैकगोपुरपुरोभागीति भागीरथी
भासा भासितभूनभांसि न भृशं जग्मुर्यशांसि क ते ॥१२२॥ शत्रुक्षत्रकलत्रनेत्रसलिलैर्जम्बालजालस्पृशि
भ्रान्त्वा भूपतिभालभूषण भवत्कीर्तिर्भुवो मण्डले । यद्यान्ती विबुधालयं प्रति सुधाकुण्डे सुधांशौ न्यधा
- दशिक्षालनमित्ययं खलु मलस्तस्मिन्गतः स्मरताम् ॥ १२३ ॥ १. 'क्रमम् ख.
Aho! Shrutgyanam

Page Navigation
1 ... 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522