Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 495
________________ काव्यमाला। इति भाषिणि धर्मज्ञे राज्ञि संक्रन्दनोऽवदत् । सुकृतादिक्रियाहीनः श्वायमेतु व मे पुरम् ॥ २५ ॥ खर्गोऽस्तु देहयुक्तस्य सुकृतैरस्य मत्कृतैः ।। इत्यथोचे नृपः कम्प्रशिरोभिः पूजितः सुरैः ॥ २६ ॥ ततः श्वरूपमुग्धर्मः स्वरूपरुचिरश्चिरात् । प्रीतः सर्वाङ्गमालिङ्गय भूवल्लभमभाषत ॥ २७ ॥ वत्स वत्सत्वमालोकि श्वदेहेन मुदे मया । प्रीतोऽस्मि पत्रमारोह स्वर्गस्तेऽस्तु सनातनः ॥ २८ ॥ अनया समयाभोगचतुरः पितुराज्ञया । विमानं दिव्यसोपानं प्राप्य देही दिवं गतः ॥ २९ ॥ अर्चितो नाकिभिः साकं मुनिभिर्नारदादिभिः । राजर्षिषु रराजायं तत्र चन्द्र इवोड्डषु ॥ ३० ॥ प्रस्थानस्थो दिवमनु नृपः प्राह शक्रं स्थितास्ते ____ मत्सोदयोः सह मखभुवा यत्र तत्रास्मि नेयः । मा मानुष्यं त्रिदिवभुवने भावमेहीति तेन व्याषिद्धोऽपि ध्रुवमयमभूदैत्र गाढानुबन्धः ॥ ३१ ॥ भेजे श्रीजिनदत्तसूरिसुगुरोरहन्मताहस्थितेः पादाजभ्रमरोपमानममरो नाम व्रतीन्द्रः कृती । मौर्योन्मर्दिनि बालभारतमहाकाव्येऽत्र तद्भारती मूल् सप्तदशं श्रितामितदशं प्रास्थानिक प्रास्थित ॥ ३२॥ इति श्रीबालभारते महाकाव्ये सप्तदशं प्रास्थानिकपर्व समाप्तम् । १. 'ऽमुना' ख. २. 'मित्र' ख. ३. 'शक्ति' क. ४. 'दत्त' क. ५. 'मौन्यो' ख-ग. ६. 'पूल्' क. ७. 'दृशं' क. 'दिशं' ख. ८. 'प्रास्थितम्' क-ख-ग. Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522